________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
करोति, परवञ्चनात्मकान्यपिच्छल जातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतोऽक्षपादयुर्वैराग्यव्यावर्णनं तमसः प्रकाशात्मकताप्रख्यापनमिव कथं न व्याहन्यते ! आकाशस्य निरवयवत्वं स्वीकृत्य तद्गुणःशब्दस्तदेकदेशे एव श्रूयते, न सर्वत्रेति सावयवतां ब्रुवाणस्य कथं न विरोधः? ' सत्तायोगः सत्त्वं' योगश्च सर्वैवस्तुभिः सांशतायामेव भवति, सामान्यं च निरंशमेकमभ्युपगम्यते ततः कथं न पूर्वापरतो व्याहतिः १ समवायो नित्य एकस्वभावश्चेष्यते, सर्वैः समवायिभिः सम्बन्धश्च नैयत्येन जायमानोऽनेकस्वभावतायामेव भवति, तथा च पूर्वापरविरोधः सुबोधः, 'अर्थवत् प्रमाणम्' इति, अर्थः सहकारी यस्य तद् अर्थवत् प्रमाणमित्यभिधाय योगिप्रत्यक्षमतीताद्यर्थविषयमभिदधानस्य पूर्वापरविरोधः स्यात् , अतीतादेः सहकारिवायो. गात् , तथा स्मृतिर्गृहीतग्राहित्वेन न प्रमाणमिष्यते, अनर्थजन्यत्वेन वा गृहीतग्राहित्वेन स्मृतेरपामाण्ये धारावाहिज्ञानानामपि गृहीतग्राहित्वेनाप्रामाण्यप्रसङ्गः, न च धारावाहिज्ञानानामप्रामाण्यं नैयायिकवैशे. षिकैः स्वीक्रियते, अनर्थजन्यत्वेन तु स्मृतेरप्रामाण्येऽतीतानागतादिविषयस्यानुमानस्याप्य[नार्थजन्यत्वेनाप्रामाण्यं भवेत् , त्रिकालविषयं चानुमानं शब्दवदिष्यते, घूमेन हि वर्तमानोऽग्निरनुमीयते, मेघो. नत्या भविष्यति वृष्टिः, नदीपूरेण च सैव भूतेति, तदेवं धारावाहि. ज्ञानरनुमानेन च स्मृतेः सादृश्ये सत्यपि यत् स्मृतेरप्रामाण्यं धारावाहिज्ञानादीनां च प्रामाण्यमिष्यते, स पूर्वापरविरोधः । ईश्वरस्य सर्वार्थविषयं प्रत्यक्षं किं इन्द्रियार्थसन्निकर्षनिरपेक्षमिष्यते आहो.
For Private And Personal Use Only