________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवरकाणकश्रीपार्श्वनाथस्तोत्रम् एवं श्रीगुरुराजहर्षविनयश्रीसूरिपूज्यश्रियम्
नीतं स्तोत्रपथं भवन्तमसकृत् याचे विधि बोधिजम् । सौख्यासल्यविशेषपोषमहिमं श्लोकप्रकाशाद्भुतम् श्रीपााधिपधर्महंससरसाम्भोजं जयश्रीपदम् ॥ १३ ॥ . ॥ इति श्रीजीरापल्लीयश्रीपार्श्वनाथस्तोत्रम् ॥ ५४ ॥
अथ श्रीवरकाणकश्रीपार्श्वनाथस्तोत्रम् ॥ ५५ ॥ सर्वानन्दजयश्रियां वरवदः सर्वत्र सेवाजुषाम्
योऽभूद्वा वरसौख्यवाच्युत महावाक्यप्रकाशो वरम् । यस्यासीद्वरकाणकः किमिति सत्ख्यातिस्त्रिधार्थेव तत्
स श्रीपार्श्व विभुः प्रभावविभुताभावाय भूयाद्भुवि ॥१॥ यन्माहात्म्यमहोदयैर्हयभयाभावाद्विभूतिप्रभा
भाजो भव्यतरा भवन्ति भविका भोगप्रभावाद्धताः। दुष्टारिष्टजकष्टकोटिघटनां पिष्ठा तथातथ्यशम्
स्थानस्थस्थितयः क्षणात्स्युरशिवं पार्श्वः स वः संस्थतु ॥२॥ यन्मौलौ मुकुटः स्फुटं प्रकटितस्त्रैलोक्यरक्षाकरः
प्राकारः किमिवान्यथा कथमयं दुःखोपसर्गान्वयः। नश्यत्येतदुदारभक्तिसुहृदां जागर्ति सर्वत्र च
श्रीसम्पत्पदवी ददातु स मुदं विद्यामवद्यां विभुः ॥३॥ त्रैलोक्याखिलसौख्यपोषकमभीभावाद्भुतं मे मनाङ्,
माहात्म्योदयमात्मनः स्वपददस्त्वं देहि दीप्त्यै प्रभो!। इत्यर्केन्दुयुगं निजेहितमिनं याचेत यत्कुण्डला,काराङ्ग किमिव श्रुतिस्थितमसौ पार्श्वः श्रियेस्तान् मयि ॥४॥
For Private and Personal Use Only