SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समस्यामयं श्रीयुगादिदेवस्तोत्रम् वार्डीयेतात्र शैलत्यनणुगुणगणः स्थैर्यतश्चेत्तदाऽभूत् सूच्यग्रे कृपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥२॥ सूक्ष्म ! त्वद्देशनायां भविततिरिन ! षड्दर्शनागाधकूप स्थै रूप पूरिवाथैः पृथुसमयपथाम्भोधिभेजेव लभ्या। प्रत्येकं स्थैर्यशैलं जिनमतममृतं यत्ततोऽदः पदं किं सूच्यने कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥३॥ सूक्ष्म ! त्वच्छासनश्रीस्थितमतुलतपः षड्विधं बाह्यतो वा ऽऽभ्यन्तर्यात्पूर्णकूपोज्वलमलमधिपाराध्यसिद्धि न केऽगुः॥ श्रद्धादृगंशमाब्धिप्रबलहृदचलं चेत्ततो नेति किं स्या, सूच्यग्रे कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥४॥ यत्तज्जीवात्मवादाः परमतिन इनानन्तसङ्ख्यत्वमाख्यो दोषं पड्जीवकायं स्वगिरिगुणदया गाहकूपस्वरूपम् । यच्छ्रेयः श्रीपुराभं सुपदजलनिधिं धैर्यशैलं ततोऽभूत् सूच्यग्रे कृपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥५॥ नेतस्त्वद्गीर्भवाशाप्रमितिरमृतदानान्यतीर्थ्याप्तजोक्ति, स्तन्वी जात्विष्टशंकृत् षडसुवधमहाकूपरूपोरुदङ्ग दुष्टानां च दुःखाम्बुधिरधिकहठाद्रिर्वदेवेति सम्यक् सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥६॥ शश्वद्देहाद्ययोगैः शिवपदमुपदेष्ट्रत्वमङ्गादियोगा, दन्योन्यस्पर्धवोचुः परसमयगिरः स्वाधिदेवेषु यत्तत् । सिध्यै स्यात्किन्तु तेऽर्हत् स्वसमयरचनेऽवद्यधीरेतदर्थे सूच्यग्रे कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥७॥ भिन्दन्तूच्चैः सृजन्तु स्वयमुत जगतीं यत्तदुत्त्या स्वपुष्प प्रायोदन्तस्वरूपाः परसमयपथाधीश्वराः किन्तु नेतः। त्वन्निष्टिप्रोपदेशे शिवपथि कृपणा दुर्धियोऽर्थे यथास्मिन् सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥८॥ सार्वास्यन्ते प्रसन्नं प्रशमरसभरं दृग्युगं सुश्लथं सत्, पर्यङ्कास्थानसंस्थङ्करमुखमखिलं रागरोषादिवन्ध्यम् । For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy