________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् सभविक ! भविकाली सेवते ते वचो याs
नृणगुणमपि धत्ते स्वोरसीष्टे क्रियासु । अणुलघुपदसृष्ट्या सा कथं वापि नीचै
स्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ ११ ॥ समवसरणभित्तौ यानि चित्राणि लेखा
लिलिखुरिन ! मुदा ते विस्मितं तान्यवेक्ष्य । बहुभिरमृततावाप्यत्र किं तेऽतिचित्रं
तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥ १२ ॥ जिनवृषभ ! यथाऽन्ये तीर्थिका लीलयाहुः
शिवपदमिह तद्वत्त्वं न तेऽज्ञाः पथस्थाः। तदपि परमतं यन्म्लिष्टितार्थ यथेदं
तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १३ ॥ समवसृतिभुवं ते प्राप्य के के न सिद्धाः
सकलकलशमुक्तेरक्षयक्षायिकातेः । न भवततिमतीयश्चित्रमत्रैक्ष्य चैवं
तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १४ ॥ जिनप! तव वचः स्यात्प(?)न्तिकास्थास्थितानां ___ भवति शिवरमायाः शंनिधेः किं न हिंसाम् । प्रतिकृतिविहितान्त्या भाविनी निर्जितांह
स्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १५ ॥ द्वयमनुपसमेतत् सम्प्रतीमो द्वयस्या
भयद ! वरपरीक्षाप्रेक्षकाः सत्यवाक् त्वम् । त्वयि वितथपथेनार्थादरान्येष्विदंव
त्तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता ॥ १६ ॥ तव मतिविपरीताः क्लप्तहिंसादिदोषा जिन ! परसमयास्ते सर्वचिन्मूलतोत्थाः।
For Private and Personal Use Only