________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसीमन्धरस्वामिस्तोत्रम् अथ द्रुतविलम्बितम्भविककामितकल्पतरूपमं विजयपुण्डरीकिण्यवतारकम् । नमत दैवतसंमतसत्यकीसुतमणिं घुमणिभविनां जिनम् ॥ १९ ।। गुणवरेण्यकलालयरुक्मिणीहृदयपद्ममधुव्रतसद्वतम् । श्रयत भो भविका जिननायकं भविकमौक्तिकशर्मपदाप्तये ॥ २० ॥ अथ मालिनीनृपततिमुकुटश्रेयस्करो/शवंश
प्रसृमरमहिमानं मान्यमूर्द्धन्यधर्मम् । सुवचनरचनाभिर्देशनाभिर्दिशन्तं निरुपम
शिवमार्ग नौमि सीमन्धरं तम् ॥ २१ ॥ शमदमसरसश्रीसम्पदालिङ्गिताङ्गं
नमदसुरसुरालीपूज्यपादाब्जलक्ष्मीम् । समवसरणसंस्थं शोभि सौभाग्यभोगं
त्रिभुवनगुरुराजं नौमि सीमन्धराप्तम् ॥ २२ ॥ अथ शिखरिणीजगज्येष्ठश्रेष्ठः प्रकटितपटुप्रष्ठविभुतः, __ सदा कन्दः श्रीणां त्रिभुवनमुदां कार्मणपदम् । जयस्तम्भारम्भः प्रसभमशुभादृष्टविकट,
द्विषां जीयात् सीमन्धरवरजिनः सर्वसुखदः ॥ २३ ॥ शार्दूलविक्रीडितम्इत्यानन्दपदोदितैकमनसा नीतः स्तुतेर्गोचरं,
श्रीसीमन्धरतीर्थपः श्रितवतां सर्वार्थचिन्तामणिः । सौभाग्याभ्युदयस्थहर्षविनयश्रीसूरिताभ्युन्नतियान्मे वरधर्महंससरसक्रीडाब्जबोधिप्रथाम् ॥ २४ ॥
इति श्रीसीमन्धरस्वामिस्तोत्रम् ॥३१॥
For Private and Personal Use Only