________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअरदेवस्तोत्रम् ॥ अथ श्रीकुन्थुदेवस्तोत्रम् ॥ २३ ॥ स्वमहाप्रभावजितसूररमाकरसूरभूपकुलवृद्धिकरम् । सरसोदितानणुगुणप्रगुणं मुदितः स्तवीमि जिनकुन्थुमहम् ॥१॥ प्रभुताद्भुतेह तव कापि तवात्रिपदी मिताक्षरमिताऽपि विभो। अमितार्थवाचकतया गणभृहृदये ततान नयकोटितटा ॥२॥ उचितं व्यमुञ्चदयि चक्रिरमां तृणवत् क्षणेन भुवि यः स विभुः। सदनन्तसम्पदतिरम्यचतुष्टयलुब्धहृत्सततमस्ति यतः॥३॥ उचितं वसेत्यनुदिनं कमला जिनपादपद्मा निलये विमले। कथमन्यथा श्रितवतां पुरतो लुठतीह सम्पदखिलाऽप्यमला॥४॥
प्रमिताक्षरा छन्दः । श्रीकुन्थो पृथुशिवपथदर्शीति नुतः सनातनं चिनु मे। वरहर्षविनयसूरितमहिमं बोधिधर्महंसगुरुः ॥५॥
॥ इति श्रीकुन्थुदेवस्तोत्रम् ॥ २३ ॥
अथ श्रीअरदेवस्तोत्रम् ॥२४॥ प्रहर्षिणी छन्दःसम्यक्त्वोचितचितसान्वयार्थनामप्रख्यातिप्रथितसुदर्शनान्वयस्थम्। श्रीअर्हत्प्रसृमरचक्रिरमारमण्योः क्रीडाङ्गं तमरमरं जिनेशमीडे ॥१॥ त्वत्पादाम्बुरुहि जिनाभिषेकसेकः सद्गन्धोदकनिकरैः क्रियेत भव्यैः। कर्तृणांमलविगमो भवेत्तु चित्रं लोकानां तिमिरहतियथोदितेऽर्के॥२॥ यैः प्राप्ताः परसमयाऽभिमाननीयावेवास्ते समहिमतां गुणैरगण्यैः। सर्वे ते तव गुणसङ्कथासु हेत्वाभासौघा इव हसनीयतां जिनाऽगुः३ ध्यायन्ते गुणनिवहास्तवात्मचित्ते सद्भव्यैः प्रकटयतीह दर्शनादि । त्रैलोक्याभ्युदयतयाऽथ दृश्यसे त्वं
ब्रह्मश्रीस्त्वरिततयैव सम्मुखा स्यात् श्रीअरजिनेश कृतनतविजयः स्तुत इति विधेहि मे जयदम् । मतिहर्षविनयसूरितभवभयतरो महंसरसम् ॥५॥
॥ इति श्रीमरदेवस्तोत्रम् ॥ २४ ॥
For Private and Personal Use Only