SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशत्रुञ्जयमहातीर्थस्तोत्रम् सम्पद्येत स्वयमपि पुनर्मानुषस्वर्गमोक्ष, श्रेयः सौख्योदय इह सतां दर्शनं सम्पदे स्यात् ॥ १३ ॥ चिन्तामण्यादय इह फलैरैहिकैः किञ्चिदासन् , दातृत्वाख्यास्त्वयि तु सततं शैलमले प्रसर्पेत् । नानानन्तातुलफलकलादानशक्तिप्रभावः, किं तश्चित्रं ननु सुगुरवः सर्वशक्तिप्रयुक्ताः॥ १४॥ सद्भिः सेव्यः सुगुरुरिति या ख्यातिरास्ते यथार्था, चक्रे सैवं विमलगिरिणा भावना भावितानाम् । एतत्तीर्थोत्तम गुरुधियामिष्टशिष्टार्थदानैः, सर्व युक्तं सततसफलाः सेविनां स्युर्महान्तः ॥ १५ ॥ स्मारं स्मारं विशद शिवदं रूपरूपं तवात्म, स्वान्तं पूतं नयनसुभगच्छायशृङ्गप्रसङ्गम् ।। कारं कारं त्वयि नुतिरतं शैल वाकायशुद्धिं, । कुर्वे सन्तः खलु परिचितास्तान्तिशान्त्यै प्रसन्नाः ॥१६॥ सौभाग्यं तेऽनुपम महिमारम्यमान्याः क्षमः कः, शक्त्या वक्तुं शिखरिमुकुट त्वगुणध्यानधन्याः। सम्पत्प्राप्तिं भवभयभिदं भाग्यसौभाग्यभोगं, लब्ध्वा हृष्टप्रकृतय इहानन्दकन्दा हि सन्तः ॥ १७ ॥ वन्दे शत्रुञ्जयगिरिवरं विश्वसम्पद्विलासं श्रेयः श्रीणां ललनसदनं ब्रह्मलक्ष्मीविनोदम् । कर्मारीणां सरसविजयस्तम्भमिष्टधुरत्नं, सद्घोहित्थं भवभयजले सर्वसिद्धिप्रसिद्धिम् ॥ १८॥ इत्यानन्दमहोदयोज्वलकलालीलाविलासान्नुतः, श्रीशत्रुञ्जयनामतीर्थशिखरी सौभाग्यचूडामणिः । त्रैलोक्योदितहर्षहर्षविनयश्रीसूरितप्रौढिम, बोधि मे विदधातु कामितफलं श्रीधर्महंसश्रियम् ॥ १९ ॥ ॥ इति श्रीशत्रुञ्जयमहातीर्थस्तोत्रम् ॥ ३ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy