________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १ श्वेताम्बरचक्रचूडामणिश्रीयशोभद्रोपाध्यायशिष्यश्रीचन्द्रमरिविरचितः
अद्भुतपद्मावतीकल्पः।
श्रीपार्श्वनाथाय नमः। शकलीकरणलक्षणं तृतीयं प्रकरणम् ॥३॥ पूर्व पूर्वाभिमुखः स्नातः शुभवस्त्रभूषितः सुरभिः । पर्यङ्कासनसंस्थो नासाग्रन्यस्तहग्युग्मः ॥१॥ निर्मलनिर्जनदेशे स्थित्वा मन्त्री निरुध्य वायुं च। आपूर्य शनैरन्तो रेचकविधिना ततस्तूर्ध्वम् ॥ २॥ उत्क्षिप्य च धूमशिखाकारेण विधूय पापरेणुं च । आत्मानं कर्मेन्धनपुञ्जस्योपरि स्थितं स्मरेत् ॥ ३ ॥
त्रिभिः कुलकम् । दीपशिखाकारेण तु तदधो जाज्वल्यमानरेफ च । निजहृदये चाकारं विचिन्तयेदात्मरूपेण ॥४॥ प्रविचिन्त्य धकारं तद्रेफस्याधश्च वायुरूपेण । दन्दह्यमानमग्निकबीजेनात्मानमवमत्य ॥५॥ भस्मीभूतमकारकबीजात्मकशेषमुपरि तस्यैव । मेघाकारेण ततस्त्वधो मुखाकारबीजमाकाशे ॥ ६॥ वर्षन्तममृतमुक्ताफलसन्निभतोयनिकरण । प्लवमानं संस्मरयेत् परितो मन्त्री च सहृदयः ॥ ७ ॥
त्रिभिः कुलकम् ॥
For Private And Personal Use Only