________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
सविवरणे भैरवपद्मावतीकल्पे
[ श्लोका: १०/५४'सकलनृपमुकुटघटितचरणयुग : ' सकलभूपालमुकुटघटितपादारविन्दद्वयः । 'श्रीमदजितसेनगणी' श्रीमदजितसेनाचार्य: । 'जयतु' सर्वोत्कर्षेण वर्तताम् । 'दुरितापहारी' पापापहारी । पुनः कथम्भूतः ? 'भव्यौष - भवार्णवोत्तारी' भव्यजनसमूहस्य संसारसमुद्रोत्तारकः ।
जिनसमयागमवेदी गुरुतरसंसारकाननोच्छेदी । कर्मेन्धनदहनपटुस्तच्छिष्यः कनकसेनगणिः ॥ ५४ ॥
'जिनसमयागमवेदी' जिनेश्वरसमयसकलागमज्ञाता । 'गुरुतरसंसार काननोच्छेदी' दुर्धरसंसृतिकान्तारोन्मूलनसमर्थः । 'कर्मेन्धनदहनपटुः' सकलकर्मेन्धन दहन कियायां अतीव दक्षः । 'तच्छिष्यः' श्रीमदजितसेनाचार्यस्य शिष्यः । कः ? 'कनकसेनगणी' कनकसेनाचार्यः ॥
Acharya Shri Kailassagarsuri Gyanmandir
चारित्रभूषिताङो निःसङ्गो मथितदुर्जयानङ्गः ।
तच्छिष्यो जिनसेनो बभूव भव्याब्जघर्मांशुः ॥ ५५ ॥
' चारित्र भूषिताङ्गः' सकलचारित्र भूषितशरीरः । 'निःसङ्गः ' बाह्याभ्यन्तरपरिग्रहरहितः । 'मथितदुर्जयानङ्गः' दुर्जयश्चासौ अनङ्गश्च दुर्जयानङ्गः मथितो दुर्जयानङ्गो येन स मथितदुर्जयानङ्गः निर्जितमदनः । 'तच्छिष्यः' कनकसेनाचार्यस्य शिष्यः । कः ? 'जिनसेनः' जिनसेनाचार्यः । 'बभूव' सजातः । कथम्भूतः ? 'भव्याब्जधर्माशुः ' भव्यकमलप्रबोधन दिवाकरः ||
तदीयशिष्योऽजनि मल्लिषेणः सरस्वतीलब्धवरप्रसादः ।
तेनोदितो भैरवदेवतायाकल्पः समासेन चतुःशतेन ॥ ५६ ॥
'तदीय शिष्यः ' जिनसेनाचार्यस्य शिष्यः । 'अजनि' जातः । कः ? 'मल्लिषेणः' मलिषेणाचार्यः । कथम्भूतः ? 'सरस्वतीलब्धवरप्रसादः ' सरस्वतीदेव्याः सकाशात् प्राप्तवरप्रसादः । 'तेन' मल्लिषेणाचार्येण । 'उदितः कथितः । 'भैरवदेवतायाः ' भैरवपद्मावतीदेव्याः | 'कल्पः' मन्त्रवादसमूहः । 'समासेन' संक्षेपेण 'चतुःशतेन' चतुःशतसङ्ख्याग्रन्थप्रमाणेन ॥
यावद्वार्धिमहीधरतारागणगगनचन्द्रदिनपतयः ।
तिष्ठन्ति तावदास्तां भैरवपद्मावतीकल्पः ॥ ५७ ॥
‘यावत्' यावत्कालपर्यन्तम् | 'वार्धिः समुद्रः । 'महीधरः' कुलशैलः । ' तारागण: ' नक्षत्र समूहः । 'गगनं ' आकाशः। ‘चन्द्रः’ मृगाङ्कः । 'दिनपतिः' मार्तण्डः । एते वार्ध्यादयो यावत्कालपर्यंतं ' तिष्ठन्ति' स्थास्यन्ति । 'तावत्' तावत्कालपर्यन्तम् | ‘आस्ताम्' तिष्ठतु । 'भैरवपद्मावतीकल्पः ' भैरवपद्मावतीनामदेव्याः मन्त्रकल्पः ॥
इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचितो भैरवपद्मावतीकल्पः समाप्तः ॥
For Private And Personal Use Only