________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ७/१८मन्त्रः-- नमो भगवदो अरिट्रनेमिस्स अरिट्रेण बंधेण बंधामि रक्खसाणं भूयाणं खेयराणं चोराणं दाढीणं साइणीणं महोरगाणं अण्णे जे के वि दुट्टा संभवंति तेसिं सव्वेसिं मणं मुहं गई दिष्ट्रिं बंधामि धणु थणु महाधणु जः जः ठः ठः ठः हुं फट । इत्यरिष्टनेमिमन्त्रं प्राकृतम् ।।
स्मरवीजयुतं शून्यं तत्त्वेनैकारवेष्टितम् । बाह्येऽष्टदलमम्भोज नित्यक्लिन्ने! मदद्रवे! ॥१८॥ मदनातुरे ! वषडिति विलिखेत् स्वाहान्तविनयपूर्वेण ।
त्रिभुवनवश्यमवश्यं प्रतिदिवसं भवति संजपतः ॥ १९ ॥ 'स्मरबीजयुतम्' कौंकारयुतम्। किं तत् ? 'शून्य' हकारम् । एवं हक्ली इति बीजम् । पुनः कथा भूतम् ? 'तत्त्वेनैकारवेष्टितम्' ह्रींकारेणकारेण वेष्टितम् । 'बाह्ये' तर्दैकारबाह्ये 'अष्टदलमम्भोजम्' अष्टदलकमलं लिखेत् । 'नित्यक्लिने ! मदद्रवे ! मदनातुरे! वषड्' इति मन्त्रं तहलेष लिखेत् । स्वाहान्तविनयपूर्वेण' स्वाहाशब्दमन्त्यं कारं पूर्व कृत्वा लिखेत् । 'त्रिभुवनवश्यम्' भुवनत्रयवश्यम् 'अवश्यं' निश्चितम् 'प्रतिदिवसम्' दिनं दिनं प्रति 'भवति' स्यात् । 'संजपतः' सम्यग् जपं कुर्वतः पुरुषस्य । मन्त्रोद्वार:--- 3 हक्ली ही ऐ नित्यक्लिन्ने ! मदद्रवे ! मदनातुरे ! ममामुकीं वश्यावृष्टि कुरु कुरु वषट् स्वाहा।।
वर्णान्तं मदनयुतं वाग्भवपरिसंस्थितं वसुदलाजम् ।
दिक्षु विदिक्षु च मायावाग्भवबीजं ततो लेख्यम् ॥२०॥ ‘वर्णान्त' वर्णस्यान्तो वर्णान्तः हकारः तं हकारम् । कथम्भूतम् ? 'मदनयुतम्' क्लीकारयुतम् । हक्लौ इति । 'वाग्भवपरिसंस्थितम्' ऐंकारसमन्तात् स्थितम् । 'वसुदलाब्जम्' तर्दैकाराद् बहिरष्टदलपद्मम्। 'दिक्षु विदिक्षु च मायावाग्भवबीजम्' प्राच्यादिचतुर्दिशासु ह्रौंकारबीजम् , आग्नेय्यादिचतुर्विदिशासु च ऐकारबीजम् 'ततो लेख्यम्' तस्माल्लेखनीयम् ।।
त्रैलोक्यक्षोभणं यन्त्रं सर्वदा पूजयदिदम्। हस्ते बद्धं करोत्येव त्रैलोक्यजनमोहनम् ॥ २१॥
'त्रैलोक्यक्षोभण' त्रैलोक्यवर्तिजनक्षोभकारि 'यन्त्रं' एतत् कथितयन्त्रम् । 'सर्वदा' सर्वकालं पूजयेत् 'इदम् एतद् यन्त्रम्। 'हस्ते बटुंबाही बदम् 'करोत्येव' अवश्यं करोति 'त्रैलोक्यजनमोहनम' त्रैलोक्यान्तर्वतिजनानां मोहनम् ॥ मन्त्रोद्वार:-* ऐ ही देवदत्तस्य सर्वजनवश्यं कुरु कुरु वषट् ।।
भ्रमयुगलं केशि भ्रम माते भ्रम विभ्रमं च मुह्यपदम् । मोहय पूर्णैः स्वाहा मन्त्रोऽयं प्रणवपूर्वगतः ॥ २२ ॥
For Private And Personal Use Only