________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः ७।१०'अन्त्यवर्गः' शवर्गः। 'तृतीयः' तस्य शवर्गस्य तृतीयाक्षरः सकारः। 'तुर्यः' चतुर्थः हकारः । 'वकारः' वकाराक्षरम् । 'तत्त्वं' ह्रींकारः । 'घृताह्वयम्' एतैश्चतुर्भिरक्षरैरावेष्टितदेवदत्तनाम । 'हंसवर्णवृतम्' तदक्षरचतुष्टयाद् बहिः 'हंसः' इतिवणरावृतम् । 'ततः' हंसवलयात् 'द्विगुणीकृताष्टदलाम्बुजम्' षोडशदलपद्मम् । 'तेषु' षोडशदलेषु 'षोडश सत्कलाः' अकारादिषोडशस्वराः। 'शिरसोनशून्यवृतं बहिः' तत्स्वराद् बहिः शिरोरहितहकरिवेष्टितम् । 'मायया' ह्रींकारेण 'परिवेष्टितम्' समन्ताद् वेष्टितम् । 'प्रणवादिकादिभिः' तद् ह्रींकाराद् बहिःप्रदेशे प्रणव आदियेषां ते ककारादयः तैः कादिभिरावृतम् । क, ख, ग, घ, ङ, च, इत्यनेन प्रकारेण हकारपर्यन्तं वेष्टनीयम् ॥
यन्त्रमाविलिखेदिदं हिमकुङ्कमागुरुचन्दनै
भूर्यके फलकेऽथवा भुवि गोमयेन विमार्जिते । प्रत्यहं विधिना समं जपतोऽरुणप्रसवैभृशं
तस्य पादसरोजषट्पदसन्निभं भुवनत्रयम् ॥१०॥ 'यन्त्रम्' एनत्कथितयन्त्रम् ‘आविलिखेत्' समन्तात् लिखेत् । कैः ? 'हिमकुङ्कुमागुरुचन्दनः' कर्पूरकाश्मीरागुरुश्रीगन्धादिसुरभिद्रव्यैः । क्व ? 'भूर्यके' भूर्यपत्रे। 'फलके' वटफलके। 'अथवा' अन्येन प्रकारेण वा 'भुवि' पृथिव्याम् । ‘गोमयेन' भूम्यपतितगोशकृता 'विमार्जिते' विलिप्ते 'प्रत्यहं' दिनं दिनं प्रति ‘विधिना' यथाविधानेन 'सम' सह 'जपतः' जपं कुर्वतः । कैः? 'अरुणप्रसवैः' रक्तकरवीरपुष्पैः। 'भृशं' अत्यर्थम् । 'तस्य' अनेन प्रकारेण जपतस्तस्य पुरुषस्य। 'पादसरोजषट्पदसन्निभं' पादकमलभ्रमरसदृशं । किम् ? 'भुवनत्रयम्' जगत्त्रयम् तस्य पुरुषस्य वशवर्ति स्यात् इत्यभिप्रायः । मन्त्रः--3 ही हस्क्ली ब्लू है असिआउसा अनाहतविद्यायै नमः ।
ब्रह्मान्तरगतं नाम मायया परिवेष्टितम् ।
वेष्टितं कामराजेन बाटे षोडशपत्रकम् ॥ ११ ॥ 'ब्रह्मान्तरगत' कारमध्यस्थितम् 'नाम' देवदत्तनाम । कथम्भूतम् ? 'मायया परिवेष्टितम्' ह्रींकारेण परिवेष्टितम्। पुनरपि ह्रींकाराद् बहिः 'कामराजेन' क्लीकारेण 'वेष्टितं' परिवेष्टितम्। 'बाह्य' क्लीकारबाह्ये 'षोडशपत्रक' षोडशदलपद्मम् ।।
पञ्च बाणान न्यसेत् तेषु स्वाहान्तौकारपूर्वकान् ।
तैबाह्ये मायया वेष्टयं क्रोकारेण निरोधयेत् ॥ १२ ॥ ‘पञ्च वाणान्' 3 ब्राँ द्रीं क्ली ब्लं सः इति पञ्च बाणान् ‘न्यसेत्' स्थापयेत् । केषु ? 'तेषु' प्रत्येक
१ मायया तत् त्रिधा वेष्टयं इति ख पाठः ।
For Private And Personal Use Only