________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो द्वादशरञ्जिकामन्त्रोद्धारपरिच्छेदः । द्वादशपत्राम्बुरुहं मलवर कारसंयुतं कूटम् ।
तन्मध्ये नामयुतं विलिखेत् क्लीकारसंरुद्धम् ॥१॥ 'द्वादशपत्राम्बुरुहं' द्वादशपत्रान्वितं पद्मम् । कथम्भूतम् ? 'मलवरयंकारसंयुतम्' मश्च लश्च वश्व रघ यूकारच मलवरयंकाराः तैः संयुतम्। किम् ? 'कूटम्' क्षकारम् । एवं क्षयं इति। 'तन्मध्ये नामयुतम्' म्यूमध्ये देवदत्तनामयुतम् । 'विलिखेत्' विशेषेण लिखेत् । कथम्भूतम् ? 'क्लीकारसंरुद्धम्' तत्पिण्डोभयपार्श्वे क्लीकारनिरुद्धं लिखेत् ॥
विलिखेज्जयादिदेवीः स्वाहान्तौकारपूर्विका दिक्षु।
झभमहपिण्डोपेता विदिक्षु जम्भादिकास्तद्वत् ॥२॥ 'विलिखेज्जयादिदेवीः' जयादिचतुर्दैवता विलिखेत् । क्व? 'दिक्षु' चतुर्दिशासु । 'स्वाहान्तौंकारपूर्विकाः' - जये! स्वाहा इति पूर्वदले, * विजये ! स्वाहा इति दक्षिणदले, अजिते ! स्वाहा इति पश्चिमदले, न अपराजिते ! स्वाहा इत्यत्तरदले विलिखेत् । 'झभमहपिण्डोपेताः' झव भश्च मश्च हश्च झभमहाः ते च ते पिण्डास्तरुपेताः झभमहपिण्डोपेताः। क ? 'विदिक्षु' विदिशासु । काः ? 'जम्भादिकाः' जम्भादी: चतुर्देवीः। 'तद्वद्' यथापूर्व स्वाहान्तौकारपूर्विकाः । ॐ झ> जम्भे ! स्वाहा इत्याग्नेय्यां दिशि, 3 → मोहे ! स्वाहा इति नैर्ऋत्यदले, 3 म्यू स्तम्भे ! स्वाहा इति वायव्यदले, 3 हव्यं स्तम्भिनि ! स्वाहा इति ईशानदले लिखेत् ॥
उद्धरितदलेषु ततो मकरध्वजबीजमालिखेचतुषु ।
गजवशकरणनिरुद्धं कुर्यात् त्रिर्मायया वेष्टयम् ॥३॥ _ 'उद्धरितदलेषु ततः' तस्मादष्टपत्रलेखनानन्तरं उद्धरितदलेषु । कतिसंख्योपेतेषु ? 'चतुर्षु' चतुःसंख्येषु । 'मकरध्वजबीजमालिखेत्' क्लीकारबीजमालिखेत् । 'गजवशकरणनिरुद्धं' मौकारनिरुद्धम् । 'त्रिर्मायया वेष्टयम्' पत्रबाह्य हौंकारेण त्रिधा वेष्टितम् । 'कुर्यात्' करोतु ॥
भूर्ये सुरभिद्रव्यैर्विलिख्य परिवेष्टय रक्तसूत्रेण।
निक्षिप्य सुल्वभाण्डे मधुपूर्णे मोयत्यबलाम्॥४॥ 'भूर्ये' भूर्यपत्रे । 'सुरमिद्रव्यैः' कुमुमादिसुगन्धद्रव्यैः। विलिख्य' एतद् मन्त्रं लिखित्वा । 'परिवेष्टय रक्तसूत्रेण' रक्तसूत्रेण वेष्टयित्वा । 'निक्षिप्य' संस्थाप्य । क्व ? 'सुल्वभाण्डे' अपक्कभाण्डे । कथम्भूते ! 'मधुपूर्णे' माक्षिकपूर्णे। 'मोहयत्यबलाम्' अबला वनिता तां मोहयति ॥
अस्य मूलमन्त्रोद्धारः
१. कनक इति ख पाठः
For Private And Personal Use Only