________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७
देव्यर्चनाधिकारः ३ ।
३।३९]
'तत्त्वानृतम्' होकार वेष्टितम् । किं तत् ? 'नाम' देवदत्तनाम | 'विलिख्य' लिखित्वा । क ? 'पत्रे' ताम्रपत्रे । किं कृत्वा ? 'स्मरेषुभिः' कामबाणै: । कतिसङ्ख्यैः ? ' पश्चभिः । एवं द्राँ ही क्ली ब्लू सः एतैः । 'आऽभिवेष्टय' आ समन्ताद् वेष्टयित्वा । 'पुनः' पुनरपि । 'बाह्ये' नामबाह्ये | 'लोकपतिप्रवेष्टयम्' कारवेष्टितं कृत्वा । 'तद्धोमकुण्डे' तत् ताम्रपत्रयन्त्रं होमकुण्डमध्ये । कथंभूते ? 'त्रिकोणे' यस्स्रे । 'निखनेत्' पूरयेत् ॥
मधुरत्रिकसम्मिश्रितगुग्गुलकृतचणकमात्रवटिकानाम् । त्रिंशत्सहस्रहोमात् सिध्यति पद्मावती देवी ॥ ३६॥
' मधुरत्रिकसम्मिश्रित ' - धृतदुग्धशर्करा संयुक्त - ' गुग्गुलकृत ' - यक्षधूपकृत- ' चणकमात्रवटिकानाम् ' । 'त्रिशत्सहस्रहोमात् ' त्रिशत्सहस्रसङ्ख्यवटिकानां हवनात् । 'सिध्यति' सिद्धा भवति । का ? 'पद्मावती देवी' फणिशेखरा देवी |
मन्त्रस्यान्ते नमःशब्दं देवताराधनाविधौ ।
तदन्ते होमकाले तु स्वाहाशब्दं नियोजयेत् ॥ ३७ ॥
'मन्त्रस्यान्ते' मन्त्रपरिसमाप्तौ । 'नमः शब्द' नमः इति वाक्यम् । क ? 'देवताराधनाविधौ' देव्या मन्त्राराधनविधाने संयोजयेत् । 'तु' पुनः । ' तदन्ते' मन्त्राराधनान्ते । 'होमकाले' हवनसमये । 'स्वाहाशब्द ' स्वाहेतिशब्दम् । 'नियोजयेत्' संयोजयेत् ॥
दशलक्षजाप्यहोमात् प्रत्यक्षो भवति पार्श्वयक्षोऽसौ ।
न्यग्रोधमूलवासी श्यामाङ्कस्त्रिनयनो नूनम्॥३८॥
Acharya Shri Kailassagarsuri Gyanmandir
'दशलक्षजाप्यहोमात्' दशलक्षजाप्यहवनात् । 'प्रत्यक्षो भवति' साक्षात् प्रत्यक्षो भवति । कः ? 'पार्श्वयक्षोऽसौ ' असौ पार्श्वनामधेयो यक्षः । कथंभूतः ? 'न्यग्रोधमूलवासी' वटवृक्षमूलवासी । किंविशिष्टः ? 'श्यामाङ्गः । पुनः कथंभूतः ? 'त्रिनयनः ' त्रिनेत्रः । ' नूनं' निश्चितम् ॥ मन्त्रः- ही पार्श्वयक्ष ! दिव्य
१
रूप महर्षण एहि एहि को ही नमः ॥ यक्षाराधनविधानमन्त्रोऽयम् ॥
निजसैन्यैर्मायामयसमुच्छ्रितैर्वैरिलोकमग्रस्थम् । विमुखीकरोति यक्षः सङ्ग्रामे निमिषमात्रेण ॥ ३९॥
‘निजसैन्यैः’ स्वकीयसैन्यैः । कथम्भूतैः ? 'मायामयसमुच्छ्रितैः' ह्रौंकार कृतप्राकारसम्यगुच्छ्रितैः । 'वैरिलोकम्' शत्रुसेनासमूहम् । कथंभूतम् ? 'अग्रस्थम्' स्वकीय सैन्यपुर: स्थितम् । 'विमुखीकरोति' पराङ्मुखीकरोति । कोऽसौ ? ‘यक्षः’ पार्श्वयक्षः । क्व ? 'सङ्ग्रामे ' रणाङ्गणभूमौ । कथम् ? 'निमिषमात्रेण' क्षणमात्रेण ॥
१. रूप इति ख पाठः २. दर्पण इति ख पाठः
For Private And Personal Use Only