________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Cyanmandir
परिशिष्ट २० महामात्यश्रीवस्तुपालविरचितं श्रीअम्बिकास्तवनम्
CC-
5
पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रिजगतीदुरितापहाराम् । दौर्गत्यपातिजनताजनितावलम्बामम्बामहं महिमहैमवतीं महेयम् ॥१॥ यद्वक्त्रकुञ्जरहरोद्गतसिंहनादोऽप्युन्मादिविघ्नकरियूथकथाममाथम् । कृण्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥२॥ कूष्माण्डि ! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेषलाभलुब्धा न धावति कुतोऽपि ततः परेण ॥३॥ दारियदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः। दुःखोपतप्तजनबालमृणालदण्डाः कूष्माण्डि ! पातु पदपद्मनखांशवस्ते ॥४॥ देवि ! प्रकाशयति सन्ततमेष कामं वामेतरस्तष करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥५॥ हन्तुं जनस्य दुरितां त्वरिता त्वमेव नित्यं त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ॥६॥ तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वारवारणजलज्वलनोद्भवा भीः। उच्छहलं न खल खेलति येष धत्से वात्सल्यपल्लवितमम्बकमम्बिके । त्वम ॥७ देवि ! त्वर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । पतत्त्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसंघमनोमुदेऽस्तु ॥८॥
वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति । पादानानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥९॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर
श्चक्रे गूर्जरचक्रवर्तिसचिवः 'श्रीवस्तुपालः' कविः । प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सतामाधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥१०॥
इत्यम्बिकास्तुतिः।
For Private And Personal Use Only