________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ११
अर्हम् । श्रीमल्लिषेणाचार्यविरचितः सरस्वतीमन्त्रकल्पः
जगदीशं जिनं देवमभिवन्द्याभिशङ्करम् । वक्ष्ये सरस्वतीकल्पं समासायाल्पमेधसाम् ॥१॥ अभयज्ञानमुद्राक्षमालापुस्तकधारिणी । त्रिनेत्रा पातु मां वाणी जटाबालेन्दुमण्डिता ॥२॥ लब्धवाणीप्रसादेन मल्लिषेणेन सरिणा । रच्यते भारतीकल्पः स्वल्पजाप्यफलप्रदः ॥३॥ दक्षो जितेन्द्रियो मौनी देवताराधनोद्यमी। निर्भयो निर्मदो मन्त्री शास्त्रेऽस्मिन् स प्रशस्यते ॥४॥ पुलिने निम्नगातीरे पर्चतारामसङ्कले। रम्यैकान्तप्रदेशे वा हर्म्य कोलाहलोज्झिते ॥५॥ तत्र स्थित्वा कृतस्नानः प्रत्यूषे देवतार्चनम् । कुर्यात् पर्यङ्कयोगेन सर्वव्यापारवर्जितः ॥६॥ तेजोवदद्वयस्याग्रे लिखेद् वाग्वादिनीपदम् ।
ततश्च पञ्च शून्यानि पञ्चसु स्थानकेष्वपि ॥७॥ ॐ वद वद वाग्वादिनी ह्रां हृदयाय नमः । ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः । ॐ वद वद वाग्वादिनी हूं शिखायै नमः। ॐ वद वद वाग्वादिनी है? कवचाय नमः । ॐ बद वद वाग्वादिनी हः अस्त्राय नमः । इति सकलीकरणं विधातव्यम् ।.
रेफैवलद्भिरात्मानं दग्धमग्निपुरस्थितम् । ध्यायेदमृतमन्त्रेण कृतस्नानस्ततः सुधीः ॥८॥
For Private And Personal Use Only