________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
347
Beginning :
अनन्तगुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥ वैजयन्तीसमासीनमेकान्ते चतुराननम् । विष्णोविविदिषुस्तत्वं पर्यपृच्छत्सदाशिवः ॥ . यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः । केन तत्प्रेरितं याति प्राणस्सर्वोत्तमस्तथा ॥ चक्षुः श्रोत्रं तथा वाचं को देवो विजये जयेत् । इति प्रष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥ ध्यात्वा नारायणन्देवं सर्वाधारमनूपमम् । सर्वज्ञं सर्वशक्तिञ्च सर्वदोषविवर्जितम् ॥ यः प्राणस्य प्रणेता च चक्षुरादेश्व सर्वशः । अगम्यस्सर्वदेवश्च परिपूर्णत्वहेतुतः ॥ प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः । सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥
End:
ऋग्यजुस्सामाथर्वाख्या पाश्चरात्रञ्च भारतम् । मूलरामायणञ्चैव पुराणं भगवत्परम् ।।
वेदा इत्युच्यते सद्भिः शिक्षाद्यं रमृतयस्तथा । अङ्गानि सत्यं मीमांसा तद्विद्यायतनत्रयम् ॥ इति विद्यानिर्णये। यश्चिदानंदसच्छक्तिसम्पूर्णी भगवान्परः ।
नमोऽस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसाश्च मे ।। Colophon:
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीमत्तलवकारोपनिषद्भाप्यं समाप्तम् ।
For Private and Personal Use Only