________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
510
A DESCRIPTIVE CATALOGUE OF
तथाप्यसिद्धं चेज्जानं दशोपनिषदं पठ । ज्ञानं लब्ध्वाचिरादेव मामकं धाम यास्यसि ॥ तथापि दृढता नो चेद्दिज्ञानस्याञ्जनासुत । द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । तासां क्रमं सशान्ति च शृणु वक्ष्यामि तत्त्वतः ॥ ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ ब्रह्मकैवल्यजाबालश्वेताश्चा हंस आरुणिः । गर्भो नारायणो हंसः बिन्दुनादशिरःशिखाः ॥ मैत्रायणी कौषीतकी बृहज्जाबालतापिनी । कालाग्निरुद्रमैत्रेयीसुबालक्षुरिमन्त्रिका ॥ सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । तेजोनादध्यानविद्यायोगतत्त्वावबोधकम् ॥ परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । दक्षिणां शरभं स्कन्दं महानारायणाद्वयम् ॥ रहस्यं रामतपनं वासुदेवं च मुद्गलम् । शाण्डिल्यं पैङ्गलं भिक्षुर्महच्छारीरकं शिखा ।। तुरीयातीतसन्न्यासपरिव्राजाक्षमालिका । अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रिपुरा कठभावना ॥ हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । तारसारमहावाक्यपञ्चब्रह्माग्निहोत्रकम् ॥
For Private and Personal Use Only