________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TIE SANSKRIT MANUSCRIPTS.
503
Beginning:
प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोकान् भुक्त्वा भोगान् स्थविष्टान् पुनरपि धिषणोद्भासितान् कामजन्यान् । पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ्मायया मोहयन्नो मायासङ्ख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ यो विश्वात्मा विधिजविषयान् प्राश्य भोगांस्स्थविष्टान् पश्चाच्चान्यान्वमतिविभवान् ज्योतिषा खेन सूक्ष्मान् । सर्वानेतान् पुनरपि शनैः खात्मनि स्थापयित्वा
खात्वा सर्वान् विशेषान् विगतगुणगणः पात्वसौ नस्तुरीयः ॥
ओमित्येतदक्षरमिदं सर्व तस्योपव्याख्यानं वेदान्तार्थसारसङ्घहभूतमिदं प्रकरणचतुष्टयमोमित्येतदक्षरमित्याद्यारभ्यते । अत एव न पृथक् संबन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते संबन्धाभिधेयप्रयोजनानि तान्येवेह भवितुमर्हन्ति तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानीति मन्यन्ते व्याख्यातारः . . .
ब्रह्मविद्याप्रकाशनायास्यारम्भः क्रियते । यत्र हि दैतमिव भवति यत्रान्यदिव स्यात् तत्रान्योऽन्यत्पश्येदन्योऽन्यद्विजानीयादिति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येतत्केन कं विजानीयादित्यादिश्रुतिभ्योऽस्यार्थस्य सिद्धिः । तत्र तावदोङ्कारनिर्णयाय प्रथमम्प्रकरणम् आगमप्रधानमात्मतत्त्वप्रतिपत्त्युपायभूतम् । यस्य द्वैतप्रपञ्चोपशमे अद्वैतप्रतिपत्तिः रज्ज्वामिव सर्पादिविकल्पोपशमे रज्जुतत्त्वप्रतिपत्तिः तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् । तथा अद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितः तथात्वप्रदर्शनाय तृतीयं प्रकरणम् । अद्वैतस्य तथात्वप्रतिपत्तेः प्रतिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थ प्रकरणम्। कथं पुनरोङ्कारनिर्णयमात्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इत्युच्यते । ओमित्येतदालम्बनमेतद्वै सत्यकाम ओमित्यात्मानं युञ्जीत ओमिति ब्रह्म ओङ्कार एवेदं सर्वमित्यादिश्रुतिभ्यः रज्वादिरिव सादिविकल्पस्यास्पदः(म् ।
For Private and Personal Use Only