________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TIIE SANSKRIT MASCSCRIPTS.
4.75
Beginuing: ____ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो नमो वंशऋषिभ्यो नमो गुरुभ्यः । ओम् उषा वा अश्वस्येत्येवमाद्या वाजसनेयब्राह्मणोपनिषत्तस्या इयमल्पग्रन्था वृत्तिरारभ्यते । संसारनद्या नि(वि)वृत्तुभ्यस्संसारहेतुनिवृत्तिसाधनविद्याप्रतिपत्तये सेयं ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोस्संसारस्य अत्यन्तावसादनादुपनिपूर्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्रन्थोऽपि उपनिषदित्युच्यते। सेयं षडध्याय्यरण्येऽनूच्यमानत्वादारण्यकम् । बृहत्त्वात् परिमाणतो बृहदारण्यकम् । तस्या(:) कर्मकाण्डेन सम्बन्धोऽभिधीयते ।
अतोऽस्माक्रियाकारकफलरूपादेतावदिदमिति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्वामिव सर्पज्ञानापनयनाय ब्रह्मविद्यारभ्यते.
प्रत्यग्गाढान्धकारप्रविघटनपटुज्ञानदानोत्सुकाभ्यां सत्यज्ञानात्मकाभ्यां बहुविधजगतः कारणाभ्यां शिवाभ्याम् । कारुण्यश्रीकटाक्षामृतरसविलसल्लोचनाम्भोरुहाभ्यां भूयो भूयः प्रकुर्मीस्त्रविधमपि नमोऽनीश्वराभ्यां गुरुभ्याम् ॥
तत्र तावदश्वमेधविज्ञानाय उषा वा अश्वस्येत्यादि । तत्र अश्वमधविषयमेव दर्शनमुच्यते प्राधान्यात् । अश्वस्य प्राधान्यं च तन्नामाङ्कितत्वात् क्रतोः । प्राजापत्यत्वाच्च उषा इति ब्राह्मो मुहूर्त उषा । वैशब्दः स्मरणार्थः End:
यस्ते स्तन इत्यादिमन्त्रेण अथास्य मातरमभिमन्त्रयते इलासीत्यनेन तं वा एतमाहुरित्यनेन विधिना । ___ ज्ञ(जा)तः पुत्रः पितरं पितामहं चातिशेते श्रिया यशसा ब्रह्मवर्चसेन च परमां निष्टां प्रापदित्येवं स्तुत्यो भवतीत्यर्थः । यस्य चैवंविदो ब्राह्मणस्य
For Private and Personal Use Only