SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 465 शेषमित्राववाचीनाविन्द्रकामावुदक्तनौ । सभार्याः कोणपैस्सार्द्ध चत्वारो दिशि दिश्यपि ॥ संवत्सरस्थो भगवान् वागीशावयनस्थितौ । मासस्थितस्स भगवान् पक्षयोर्वाक् च मारुतः ॥ अहोरात्रे तु भगवान् प्राणोऽयथ च वाडिशि । दम्पत्योभगवान्विष्णुः भार्यास्था तु सरखती ।। भर्तृस्थः स वयं वायुरेवं जानन्विमुच्यते । इति प्रजापतिसंहितायाम् । वायुरग्निरित्यत्र भूतवायुरुच्यते । प्राणशब्देन प्रधानवायुः । आत्मत. परमात्मतः । विष्णोर्वायुम्समुत्पन्नो वायोस्सर्वाश्च देवताः । प्राणाद्यास्तानयं प्राण आज्ञापयति राजवत् ।। End: पृथक् पृथक् नामरूपैः नमस्तस्मै पराय ते । इति च सत्तत्त्वे ॥ नामरूपाद्विमुक्त इत्यत्रापि नामरूपादमुक्तत्वमुच्यते विप्रिय इत्यादिवत् । नामरूपे अविहायेति पूर्वत्र अनन्तं वै नाम अनन्ता वै विश्वे देवा इति नामरूपयोरनन्तत्वं श्रुतिर्वक्ति । यत्र पूर्व साध्यास्सन्ति देवाः । स तत्र पर्येति जक्षन् क्रीडन् रममाणः । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ऋचान्त्वः पोषमास्ते पुपुप्वान् । गायत्रं त्वा गायति शक्करीषु इत्यादेश्च । अतः सर्वमुक्तेभ्यो ह्युत्तमोत्तमः परिपूर्णगुणो नारायण इति सिद्धम् ॥ नमो नमोऽस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानन्दसन्दोहसान्द्रानन्दवपुष्मते ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादविरचितं षट्प्रश्नोपनिषद्भाष्यं समाप्तम्।। ___GI For Private and Personal Use Only
SR No.020676
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 03
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1905
Total Pages349
LanguageEnglish
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy