________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Beginning of the second part :
End:
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्मीर्योनिस्तथा धेनुः वरदाभयहस्तकौ । कर्णौ च केसराश्चैव वनमालाखगेश्वरौ ॥ उपसंहारमुद्रा च द्वात्रिंशत् परिकीर्तिताः ।
निरस्तनिखिलानर्थपरमानन्दरूपिणे । नृसिंहाय नमस्कुर्मः सर्वधीवृत्तिसाक्षिणे ॥ यत्पादाब्जरजोलेशसम्पर्कात्सहसा सकृत् । सर्वसंसारहीनोऽहं तान्नतोऽस्मि गूरून् सदा || तापनीयरहस्यार्थविवृतिर्लेशतो मया । क्रियतेऽल्पधियान्तस्मात्क्षन्तव्यं क्षतमुत्तमैः ॥
इह पूर्वस्मिन् ग्रन्थे नृसिंहाकारब्रह्मविद्या निरुपाधिकब्रह्मविद्याफलाधिगता । तथायुक्तं वार्तिककाद्भिः
नृसिंह्मविद्यैषा व्याख्याता ज्ञानसिद्धये । इति प्रणवस्य त्वनुष्टुवङ्गत्वेनैव तत्र तत्र प्रवेशः
तापनीयरहस्यार्थदीपिका तिमिरापहा । गुर्वनुग्रहब्वैषा सतामस्तु सुखाये ॥ संच्चिदानन्दसम्पूर्णप्रत्यगेकरसात्मने ।
तेजसे महते भूयान्नमः पुंसिंहरूपिणे । येषां संस्मृतिमात्रेण तरन्ति भवसागरम् । तान्नतोऽस्मि गुरून् भक्तया धिया वाचा च कर्मणा ॥
443
For Private and Personal Use Only
Colophon :
इति श्रीपरमहंसपरिव्राजकाचार्य श्रीमच्छुकमुनीन्द्रशिष्य श्रीमद्गौडपादमुनिविरचिते उत्तरतापनीयविवरणे प्रथमः खण्डः ||