________________
Shri Mahavir Jain Aradhana Kendra
430
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
अथ कदाचित्परिव्राजकाभरणो नारदस्सर्वलोकसञ्चारं कुर्वन् अपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन् अवलोक्य चित्तशुद्धिं प्राप्य निर्वैरः शान्तो दान्तः सर्वतो निर्वेदमासाद्य नरमृगकिम्पुरुषामरकिन्नराप्सरोगणान् सम्मोहयन्नागतं ब्रह्मात्मजं भगवद्भक्तं नारदमवलोक्य द्वादशवर्षसत्रयाग।पस्थिताः श्रुताध्ययनसम्पन्नाः सर्वज्ञास्तपोनिष्ठापराश्च ज्ञानवैराग्यसम्पन्नाः शौनकादिमहर्षयः प्रत्युत्थानं कृत्वा नत्वा यथोचितमातिथ्यपूर्वकमुपदेशयित्वा स्वयं सर्वेऽप्युपदिष्टाः । भो भगवन् ब्रह्मपुत्र कथं मुक्त्युपायो ऽस्माकं वक्तव्यमित्युक्तस्तान् स होवाच नारदः । सत्कुलभवोपनीतस्सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्संस्कारसम्पन्नः खाभिमतैकगुरुसमीपे शाखाध्ययनपूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षशुश्रूषापूर्वकं ब्रह्मचर्यम् ।
·
Acharya Shri Kailassagarsuri Gyanmandir
·
End :
कथं निर्धनिकः सुखी धनवान् ज्ञानाज्ञानोभयातीतः सुखदुःखातीतः स्वयंञ्ज्योतिःप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः सर्वेश्वरः सोऽहमिति तद्विष्णोः परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः सूर्यो न तत्र भाति न शशाङ्कोऽपि। न स पुनरावर्तते न स पुनरावर्तते तत्कैवल्यमित्युपनिषत् ।। Colophon :- नारदपरिव्राजकोपनिषत्समाप्ता ॥
No. 556. नारदपरिव्राजकोपनिषत्. NARADAPARIVRĀJAKOPANIŞAD.
Pages, 16. Lines, 14 on a page.
Pages, 19. Lines, 11 on a page.
Begins on fol. 65a of the MS. described under No. 247.
Complete.
No 557. नारदपरिव्राजकोपनिषत्. NĀRADAPARIVRĀJAKOPANIŞAD.
For Private and Personal Use Only