________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
405
नेन्द्रियगम्यत्वात् संबोध्यते नमस्ते वायो इति । अयमेवाभिप्रायः त्वमेव प्रत्यक्षं ब्रह्मासीति वाक्येन स्पष्टीक्रियते । यतो वायूपाधिकं ब्रह्म प्रत्यक्षयोग्यं ततो हे वायो वक्ष्यमाणेषूपासकेषु त्वामेव साक्षात्कारयोग्यं ब्रह्म वदिष्यामि सोपाधिकं तु ब्रह्म येन येन प्रकारेण उपास्यते विचाराभ्यासे सति तेन तेन प्रकारेण साक्षात्कर्तुं शक्यत एव । वाजसनेयिन आमनन्ति देवो भूत्वा देवानप्येति इति ।
*
*
इति लघुटीकायां द्वादशोऽनुवाकः
*
*
इति वारुण्यामुपनिपदि लघुटीकायां ब्रह्मवल्लयास्यो द्वितीयानुवाकः ।
End :
*
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
*
*
अहमन्नदेवतारूपस्सन् अदन्तं दानमन्तरेण स्वयमेवान्नं भक्षयन्तं लोभयुपुरुषम भक्षयामि नरकपातेन नाशयामीत्यर्थः । “केवलाघो भवति केवलादी" इति श्रुतेः । " ते त्वधं भुञ्जते पापा ये पचन्त्यात्मकारणात्” इति स्मृतेश्च । अहं विश्वं सर्वे भुवनं लोकजातमभ्यभवाम् अभिभूतवान् ईश्वररूपस्सन् प्रलयकाले संहृतवानस्मि । सुवरशब्दः स्वर्गस्थमादित्यमुपलक्षयति । नशब्द उपमार्थः । सुवर्ण आदित्य इव आदित्यो यथा दीपादिनिरपेक्षेण स्वयमेव प्रकाशरूपः तथैवाह्मपि चक्षुरादिनिरपेक्षः चैतन्यज्योतिरस्मि इत्यर्थः । अनेन साम्ना प्रतिपादितसर्वात्मकत्वानुभवः कस्य फलमित्याशङ्कयाह य एवं वेदेति । ब्रह्म पुच्छमि (ति) वाक्येनोक्तमखण्डैकरसमात्मानं यः पुमानन्नमयादिद्वारेण साक्षात्करोति तस्यैतत् फलमिति । यद्यपि स एवंविदिति फलभाक् विद्वान् पूर्वमेव निर्दिष्टः तथापि विदुष एव फलं नेतरस्य विदुषस्त्ववश्यं फलं भवत्येवेति एवंविधनियमार्थम् । य एवं वेदेति पुनराम्नातमनुवाकार्थमुपसंहरति इत्युपनिषदिति । भृगुर्वै वारुणिरित्यारभ्य य एवं वेदेत्यन्तेन ग्रन्थेन प्रतिपादिता येयं ब्रह्मविद्या सेयमितिशब्देन परामृश्यते सैव उपनिषच्छब्दवाच्या उपनिषण्णमस्यां श्रेय इत्यवयवार्थस्य विद्यायामेव संभवात् उपनिषदं भो