________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TIIE SANSKRIT MANUSCRIPTS.
40)
श्रेष्ठं च वेदेत्यादिभिर्वाक्यैर्नानाविधान्युपासनान्युक्तानि । स यः कामयेत महान् प्राप्नुयामित्यादिना मन्थास्यं कर्माभिहितम् । तथा पुत्रविशेषादिकामनायुक्तानां तत्कर्माण्यभिहितानि । एवमत्राप्यम्भस्य पार इत्यादिना ब्रह्मतत्त्वमगिहितम्। आदित्यो वा एप एतन्मण्डलमित्यादिनोपासनमाभिहितम् । भूरग्नये पृथिव्यै स च हेत्यादिना कर्माण्यभिहितानि। तत्र कर्मणां बाहुल्यात् याज्ञिकीत्युच्यते । उपक्रमे ब्रह्मतत्त्वाभिधानादुपसंहारे च ब्रह्मज्ञानसाधनसत्त्यादीनां सन्न्यासान्तानामभिधानादुपनिषदित्युच्यते । तदीयपाठसंप्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते । तत्र यद्यपि शाखाभेदः कारणं तथापि तैत्तिरीयशाखाध्यायिभिः तद्देशवासिभिः शिष्टैराहतत्वात्सर्वोऽपि पाठ उपादेय एव । तत्र द्रविलानां चतुःषष्टयनुवाकपाठः । आन्ध्राणामशीत्यनुबाकः । कर्णाटेषु केषाञ्चिच्चतुःसप्ततिपाठः । अपरेषामशीतिपाठः । तत्र वयं पाठान्तराणि यथासम्भवं सूचयन्तोऽशीतिपाठं प्राधान्येन व्याख्यास्यामः । प्रथमानुवाकम्यादौ काश्चिचो ब्रह्मतत्त्वं प्रतिपादयन्ति । तासु प्रथमामृचमाह । हरिः ओम् ॥ अम्भस्य पारे भुवनस्य मध्ये . . . प्रजापतिश्चरति गर्ने अन्तरिति । अम्भम्य बहुविधसमुद्रमध्यवर्तिजलम्य पारे परतीरे.
End:
तैत्तिरीयाणामुपासनामदं किं तर्हि ब्रह्मविद्याप्रशंसा तस्यैवं विदुष इति ब्रह्मविदोऽनुक्रमणात् । तस्मान्न विद्यैवयशङ्कायामप्यवकाशोऽस्ति। एतस्मिन्ननुवाके तत्त्वज्ञानिसेवानिमित्ताभिहितेत्यशेषमपि मङ्गलम् ।।
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। Colophon:
इति नारायणीये चतुःषष्टितमोऽनुवाकः । श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवरबुक भूमालसाम्राज्य
3
For Private and Personal Use Only