________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९]
वैशेषिकशासन-परीक्षा 'समवायः पदार्थान्तरेण संबद्धयमानो न स्वतः संबद्धयते संबद्धयमानत्वात् रूपादिवत्' इत्यनुमानविरोधाच्च ।
१५. यदि चाग्नि-प्रदीपश्च मांसादीनामुष्णप्रकाशाशुचित्ववत् समवायः स्वपरयोः संबन्धहेतुः, तर्हि तदृष्टान्तावष्टम्भेनैव ज्ञानं स्वपरयोः प्रकाशहेतुः किं न स्यात् ; तथा च "ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात" [
इति विप्लवते । ६१६. किं च, यथा अर्थानां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति एवं द्रव्यादीनां वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवृत्तिरिति मन्वानः पदार्थानां संवेदनात्मकस्य ज्ञानस्य नान्यतः संवेदनम् , तस्मात् स्वतः संवेदनमिति किं न मन्येत, भाववत्तादात्म्याविशेषात् । तदविशेषेऽपि सत्तादृष्टान्तेन समवायस्यैव स्वतो वृत्तिः स्यान्न पुनर्ज्ञानस्य स्वसंवेदनमिति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । स्वतः संबन्ध इव स्वतः संवेदनेऽपि स्वात्मनि क्रियाविरोधाभावात् , अन्यथा तत्रापि तत्प्रसंगात्। तस्यैकस्यैव संघटनीय-संघटकत्वभावात् ।
$.१७. यच्चोच्यते--समवायः संबन्धान्तरं नापेक्षतेस्वतः संबन्धत्वात; ये तु संबन्धान्तरमपेक्षन्ते न ते स्वतः संबन्धाः, यथा घटादयः, न चायं न स्वतः संबन्धः, तस्मात्संबन्धान्तरं नापेक्षत इति; तदपि मनोरथमात्रम्: संयोगेनानेकान्तात् । स हि स्वतः संबन्धः संबन्धान्तरं चापेक्षते । न हि स्वतोऽसंबन्धस्वभावत्वे संयोगादेः परतस्तद्युक्तम् ; अतिप्रसंगात् । 'समवायः पदार्थान्तरेण संश्लेषे संबन्धान्तरमपेक्षते, पदार्थान्तरत्वात् , यदित्थं [ तदित्थं ], यथा संयोगः, तथा चायम्, तस्मात्तथैव, इत्यनुमानबाधितविषयत्वाच्च। .
१८. किं च, यथा समवायः स्वरूपापेक्षयाऽभेदात् तदव्यतिरिक्तघटनीय-घटकाकारापेक्षया भेदाभेदाभेदात्मकः सिद्धयति, तथावयव्याद्यपेक्षयाऽभेदात्तदपृथग्भूतावयवापेक्षयाभेदात् सर्वे वस्तु भेदाभेदात्मक जात्यन्तरं सिद्धयेत् , विरोधादिदूषणानां समवायदृष्टान्तेनापसारणात् इत्यहन्मतसिद्धिः तस्य तदिष्टत्वात् ।
"अभेदभेदात्मकमर्थतत्त्वं तव।" [ युक्त्यनु० श्लो० ७ ] इति वचनात् । तन्मतसिद्धौ ‘पराभिमतभेदैकान्तरूपं वस्तु खपुष्पवदसदेव स्यात् ।'
"स्वतन्त्रान्यतरत् खपुष्पम्" [ युक्त्यनु० श्लो० ७ ] इति वचनात् ।
5 १६. तदेवं स्वतः परतश्च समवायस्य समवायिषु वृत्तिर्न स्यात, अवृत्तिमत्त्वात् समवायवृत्तेने परमार्थतः समवायः समवाय्याश्रितः परैस्तस्य स्वातन्व्याभ्युपगमाच्च । नाप्युपचारात् , उपचारनिमित्ताभावात् ।
१. "तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् । घटादिवत्"-प्रश० ब्यो० पृ० ५२९ । २. संबन्धस्वभावत्वम् । ३. अन्येन संबन्धेन संबद्धत्वाभावात् ।
1. यथा सदात्मक-क०, ख० । 2. एवं वृत्त्यात्मकस्य क०, ख०। 3. -मन्वानः संवे- ख० । 4. -तु भेदात्मकं ग०।
For Private And Personal Use Only