SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१६] चार्वाकशासन-परीक्षा तस्य प्रतीतेः। ततो भोक्तृत्वमात्मन्येवेति तदपलापिनो लोकायतिकस्य भोक्तृत्वं क्वापि न व्यवस्थामास्तिवीत ।। १०. ननु पृथिव्यादिसमुदयशरीरकार्यान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेषव्यापिनि भोक्तृत्वं संभवति, शरीरादिविलक्षणत्वात्तस्येति चेत् । तदेवात्मद्रव्यमस्तु, जन्मनः पूर्व मरणादूर्ध्वमपि तस्य सदभावोपपत्तेः । विवादापन्नं चैतन्यमनाद्यनन्तं पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्योऽत्यन्तवैलक्षण्यस्यान्यथानुपपत्तेः । न हि तत्कार्य ततोऽत्यन्तविलक्षणमस्ति, रूपादिसमन्वयात् । चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेत् ; न; तत्त्वभेदेऽपि तस्य भावात् पृथिव्यादीनामभेदापत्तेः । पृथिव्यादितत्त्वभेदानामेकविकारिसमन्वयाभावाद्भेद एव केषांचित् प्रागभावादिभेदवत्; किमिदानी चैतन्यभूतयोरेकविकारिसमन्वयोऽस्ति येन तत्त्वान्तरत्वेन भेदो न स्यात्, तस्मादेकविकारिसमन्वयासत्त्वं वैलक्षण्यम्, तदेव च तत्त्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयतीत्यनाद्यनन्तत्वेन प्रसिद्धः सोऽयमात्मा हर्षविषादाद्यनेकाकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मकोऽप्रत्याख्यानाहः प्रतिक्षिपन्तमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । ततश्चार्वाकमतं दृष्टविरुद्धमिति सिद्धम् । ११. एतेन तदिष्टविरुद्धं च सिद्धम्, अनाद्यनन्तस्यात्मनः साधितत्वात्, प्रतिषेधगौणकल्पनादिभिस्तस्य साधयिष्यमाणत्वाच्च । तदुक्तम् "प्रतिषेध गौणकल्पन-शुद्धपदान कसंमतिजिनोक्तः । निधिलक्षणार्थेलिङ्गरपि भाव्यते भावः ॥" ६ १२. तद्यथा-'नास्ति जीवः' इति प्रतिषेधवचनमेव जीवस्य मुख्यवृत्त्या अस्तित्वं सूचयति, निरूपाख्येषु विधिप्रतिषेधानुपपत्तेः । यथा-'नाम्तीह घटः' इति प्रतिषेधो देशान्तरे घटास्तित्वं प्रकाशयति तथा स्वरूपादिचतुष्टयेन सत एव जीवस्य पररूपादिचतुष्टयेन नास्तित्वं घटते नान्यथा। १३. ननु खरविषाणा दीनामत्यन्ताभावरूपाणामपि निषेधविषय स्योपपत्तिरिति चेत् ; न, गवादिमस्तके सत एव विषाणस्य खरादिमस्तके प्रतिषेधदर्शनात् । ततः सतः प्रतीतो' प्रतिषेधसिद्धिरिति सुनिरूपितम् । १४. तथा चित्रपुरुषादौ 'इदं सजीवचित्रम्' इति गौणकल्पनं मुख्यवृत्या जीवास्तित्वं कथयति, यथा-'सिंहो माणवकः' इति माणवके सिंहत्वं विशिष्ट जात्यादिपरिणतसिंहास्तित्वमिति । तस्माद्गौणकल्पनात् मुख्यसिद्धिरिति निरवद्यम् । १५. तथा 'जीवः' इति शुद्धपदं मुख्यवृत्त्या, स्वार्थवत्, शुद्धपदत्वात्, प्रमाणपदवत् । ततः शुद्धपदाभिधेयत्वात् 'अस्ति जीवः' इति च सिद्धम् । १६. तथैवानेकविशिष्टजनसंमतत्वात् , आप्तप्रणीतत्वाच्च 'अस्ति जीवः' इति सुव्यवस्थितम् । १. सत्यादिसमन्वयस्य । २. नैयायिकानाम् । ३. प्रतिषेधश्च गौणकल्पनं च शुद्धपदश्च अनेकसम्मतिश्च जिनोक्तिश्च तैः । ४. जीवः । ५. निरूपेषु तुच्छेषु । 1. -वित क०, ग.। 2. -नन्तरां चैत-क०, ख०। 3. -तदेष्ट क०। 4. -माणाच का। 5.-दिना ख०। 6. -विषयस्वोप-1017: प्रतीतो प्रतिक.18.संजीव क० ख०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy