________________
Shri Mabes in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashery Gyanmandir
सलोमदेशमुन्मृज्यादिति । हेमाद्रौदक्षः-नाग्रांगुल्यानपृष्ठैर्वापरिमृज्यात्कथंचन । आपस्तंबः-दक्षिणेनपाणिनासव्यंप्रोक्ष्यपादौ शिरश्चेद्रियाण्युपस्पृशेत् । चक्षुषीनासिकांश्रोत्रेचेत्यथापउपस्पृशेदितिव्यासः । अक्षिणीनासिकेकर्णावोष्ठौचतदनंतरम् । ततःस्पृशेन्नाभि देशंपुनरापश्वसंस्पृशेत् । बौधायन:-खान्यद्भिःसंस्पृश्यपादौनाभिंशिरःसव्यंपाणिमंततःप्रोक्षेदिति । पैठीनसिः–पादौप्रोक्ष्यसव्यपाणौशे पाअपोनिनयेदिति । अत्रदेशाचारतोव्यवस्थेतिपृथ्वीचंद्रः । चंद्रिकायांतुयथाशाखव्यवस्थेत्युक्तम् । शूद्राधिकारेगौतमः-आचमनार्थे पादप्रक्षालनमेवैकइति । ब्राह्म-स्त्रीशूद्रयोरनित्यांभक्षालनाच्चकरौष्ठयोः । आचमनक्रियेतिशेषइतिपृथ्वीचंद्रः॥ ॥ अथाचमननि मित्तानि । यमः-उत्तीर्योदकमाचामेदवतीर्यतथैवच । ब्रह्मांडे-निष्ठीवितेतथाभ्यंगेभुक्त्वाचपरिधायच । उच्छिष्टानांचसंस्पर्शत थापादावसेचने । उच्छिष्टस्यचसंभाषादशुच्यप्रयतस्यच । संदेहेषुचसर्वेषुशिखांमुक्त्वातथैवच । विनायज्ञोपवीतेननित्यंचसमुपस्पृशेत् । जि याचैवसंस्पृश्यदंतासक्तंतथैवच । देवल:-भोजनेदंतलग्नानिनिहत्याचमनंचरेत् । हारीत:-स्त्रीशद्रोच्छिष्टाभिभाषणेमूत्रपुरीपोत्सर्गद र्शनेदेवतामभिगंतुमाचामेदिति । जपादौत्रीशूद्रभाषणेइत्युक्तंमाधवीयेस्मृत्यर्थसारेचप्रजापतिः-उपक्रमविशिष्टस्यकर्मणःप्रयतोपि सन् । कृत्वाचपितृकर्माणिसकृदाचम्यशुद्ध्यति । चंद्रिकायांहारीतः सुषुप्सुराचामेदिति । आपस्तंबःखप्नेक्षवथौसिंघाणिकालं ||
भेलोहितस्यकेशस्यवसानामग्नेर्गवांब्राह्मणस्यस्त्रियाश्चालंभेनीवींपरिधायउपस्पृशेदिति । सिंघाणिकानासामलः । केशस्यभूमिगतशिरोगतस्यचेति । लाप्रयोगपारिजातः । च्युतकेशनखस्पर्शइतिस्मृत्यर्थसारे । अग्यादिस्पर्शआचमनंनिमित्तंविनास्पर्शेइतिपृथ्वीचंद्रः। ब्राह्मणस्पर्शआच |
मनमग्निगोस्पर्शवत्रायश्चित्तत्वेन विहितेइतिमदनरत्ने । ब्राह्मणस्योच्छिष्टस्येतिप्रयोगपारिजातः । नीवीअधोवासोग्रंथिरितिचंद्रिका। __१ चक्षुषीनासिकाश्रोत्रेचोष्ठीचेतिपाठः।
For Private And Personal