________________
Shri MalTM
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
शायनदेवा जपहोमव्रतादिकान् । नकुर्याच्छ्राद्धदिवसेप्राग्विप्राणांविसर्जनादिति तन्नित्यवर्जमितिबोपदेवः । विष्णुभिन्नपरमितिपरिचर्या ।
पूजयित्वाशिवभक्त्यापितृश्राद्धंप्रकल्पयेदितिलैंगात्। श्राद्धाह्नितुसमभ्यर्च्यनृवराहंजनार्दनमितिविष्णुधर्मोक्तेश्वविहितभिन्नपरमित्यपिके चित्।सर्वादौसूर्यपूजा-अपूज्यप्रथमंसूर्यमपरान्यःप्रपूजयेत्।नतद्भूतकृतंपाद्यसंप्रतीच्छंतिदेवताइतिब्राह्मात् । -रविविनायकश्चंडीईशो विष्णुश्चपंचमः। अनुक्रमेणपूज्यंतेव्युत्क्रमणमहद्भयमिति । गणेशाकौंसमभ्यर्यशैवोविष्णुप्रपूजयेत् । अर्चयेच्चशिवपश्चाद्विष्णुमादौतुवैष्णवः ततःशि वंततोदुर्गामेवंस्यादर्चनक्रिया । अत्रगणेशार्कयोःक्रमेनतात्पर्यकिंतुतावपूजयित्वाप्रधाननपूजयेत् । आदौनसर्वादौकिंतुविष्ण्वादौ । पौराणोर्यक्रमः। __ आगमोक्तस्तुयोगिनीतंत्रे-गणेशसूर्यविष्ण्वीशदुर्गाआवाह्यपूजयेत् । भैरवीतंत्रे-आदौगणपतिदेवंसूर्यविष्णुमुमापतिम् । दुर्गाच पूजयेद्विद्वानिति । आपस्तंबस्मृतौ-प्रत्यहंदेवताःपूज्याइत्युक्तिर्वैश्वदेवदेवताभ्योन्याःपराशराद्युक्तप्रतिपदादितिथिदेवताःपूज्याइत्येतदर्थेति टोडरानंदः। तन्न । पूर्ववचनैकवाक्यतयास्यगणेशादिपूजापरत्वात् प्रतिपदादिदेवतापूजनस्यान्यत्रविधानाच्च । पंचायतनस्थापनमाहय मलप्रकाशेबोपदेव:-शंभौमध्यगतेहरीनहरभूदेव्योहरौशंकरेभास्येनागसुतारवौहरगणेशाजांबिकाःस्थापयेत् ।देव्यांविष्णुशिवैकदंतरवयोलं बोदरेजेश्वरार्येनाःशंकरभागतोऽतिसुखदाव्यस्तास्तुतेहानिदाः।यस्ययइष्टोदवःसतेनमध्येस्थाप्यःसाधारणतयापूजनेविष्णुः । श्लोकार्थस्तु-पंच सुदेवतासुपूजकाभ्यर्हितत्वेनशिवादौमध्यस्थेशिष्टानामेषक्रमः । शंभौमध्यगे-ईशानेहरिःआग्नेयेसूर्यःनैर्ऋयेगणेशःवायव्येदुर्गा । हरौमध्यगेईशानेशंकरःआग्नेयेगणेशःनैऋत्येसूर्यःवायव्येदुर्गा । खौमध्यगे-ईशानेहरःआग्नेयेगणेशःनैर्ऋत्येविष्णुःवायव्येदुर्गा । देव्यांमध्यगायाम्-विष्णु रीशानेशिवआग्नेयेगणेशोनैर्ऋत्येरविर्वायव्ये । गणेशेमध्यगे-विष्णुरीशानेईश्वरआग्नेयेदुर्गानैर्ऋत्येरविर्वायव्येइतिगोविंदराजः । मंत्रमहो धौ-पंचायतनपक्षेतुमध्येविष्णुंततोर्चयेत् । अग्निनैर्ऋतवायव्येशानेषुगणनायकम् । रविंशिवांशिवंमध्येगणेशश्वेच्छिवंशिवाम् । रविविष्णुंरवी
For Private And Personal