________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषि मंडल-स्तोत्र शिरःसंलीन ईकारो, विलीनो वर्णतः स्मृतः॥ वर्णानुसारसंलीनं, तीर्थकृत्मंडलं स्तुमः ॥ २३ ॥ चन्द्रप्रभपुष्पदन्तौ, नादस्थितिसमाश्रितौ ॥ बिन्दुमध्यगतौ नेमिसुव्रतौ जिनसत्तमौ ॥ २४ ॥ पद्मप्रभवासुपुज्यो, कलापदमधिष्ठतौ॥ शिरईस्थितिसंलीनौ, पार्श्वमल्लिजिनोत्तमौ ॥ २५ ॥ शेषास्तीर्थकृतः सर्वे,-हरस्थाने-नियोजिताः॥ मायाबीजाक्षरं प्राप्ताश्चतुर्विशतिरर्हतां ॥२६॥ गतरागद्वेषमोहाः, सर्वपापविवर्जिताः ॥ सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः ॥२७॥ देवदेवस्य यच्चक्रं,-तस्य चक्रस्य या प्रभा ॥ तया छादितसर्वांगं,-मा-मां-हिनस्तु डाकिनी २८ देवदेवस्य यच्चक्रं, तस्य चक्रस्य-या-प्रभा ॥ तया छादितसर्वांगं,-मा-मां-हिनस्तु राकिनी २९ देवदेवस्य यच्चक्र, तस्य चक्रस्य-या-प्रभा॥ तया छादितसर्वांगं,-मा-मां-हिनस्तु लाकिनी ३०
For Private and Personal Use Only