SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PALM-LEAF MSS. 43 एतस्मिन् गुणरत्नरोहणगिरिर्गाभीर्यपाथोनिधि स्तुंगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपःस्वाचारचर्यानिधिः शांतः श्रीजयसिंहसूरिरभवन्निःसंगचूडामणिः ॥ ३ ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं वभूव तत् । स वागीशोपि नो मन्ये यद्गुणग्रहणे प्रभुः ।। ४ ॥ श्रीवीरदेवविवुधैः सन्मंत्राद्यतिशयप्रवरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्त्तने विवुधः ॥ ५॥ तथा हि ॥ आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वापि मुदं व्रजति परमां प्रायोतिदुष्टा अपि । यइक्रांधिनियंदुज्वलवचःपीयूषपानोद्यतै___ गीर्वाणैरिव दुग्धसिंधुमथने तृप्तिन लेभे जनैः ॥ ६ ॥ कृत्वा येन तपः सुदुःकरतरं विश्वं प्रवोध्य प्रभो स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः ।। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निवद्धस्पृहं यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ।। ७ ।। यमुनाप्रवाहविमलश्रीमन्मुनिचंद्रसूरिसंपर्कात् । अमरसरितैव सकलं पवित्रितं येन भुवनतलं ॥ ८ ॥ विस्फूर्जत्कलिकालदुस्तरतमःसंतानलुप्तस्थितिः ___ सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयं । सम्यग्ज्ञानकरैश्चिरंतनमुनिक्षुण्णः समुद्योतितो मार्गः सोभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥ ९ ॥ For Private and Personal Use Only
SR No.020606
Book TitleReport On Search For Sanskrit MSS Year 1880 1881
Original Sutra AuthorN/A
AuthorF Kielhorn
PublisherGovernment Central Book Depot
Publication Year1881
Total Pages121
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy