________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PALM-LEAF MSS.
39
इतश्च ॥ इहैव वंशे जिनपादभक्तः सुश्रावको वोसकसंज्ञको ऽभूत् । सुधर्मकर्मोद्यतमानसा च तस्याय्यभार्याऽजनि सेसिकाख्या ।। ६॥ तस्याः साहडसंज्ञकः सुचरितः सूनुर्महात्माऽभव____च्छेष्ठा चारुचरित्रलक्षणवती पुत्री च लक्ष्मीगिता । या लक्ष्मीरिव केशवस्य दयिता प्रद्युम्ननामो गृहे
विख्यातात्मगुणोत्करेण जनताचेतश्वमुत्कारिणा ॥ ७ ॥ अपत्यसप्तकं तस्या वभूव गुणमंदिरं ।। मुतास्त्रयो महात्मानश्चतस्रः पुत्रिकास्तथा ।। ८ ।। ज्येष्ठः सूनुरुदारतादिभिरिह प्राप्तप्रसिद्धिर्गुणै- .
रत्र्यैराम्रयशोभिधो जिनमहव्यासंगतनिष्ठधीः । स्वछंदं विचरन्वरेण्यकरिवद्यः कीर्तिगंधाहतै : __ . सदानासवलिप्सयार्थिमधुपवातैः सदा सेव्यते ॥ ९ ॥ वोढुं नियुक्तोऽखिलकार्यभारधुरं सुधौरेय इव स्वपित्रा । . दम्योपि यस्तां वहति स्म धीमान् विश्रब्धचेताः पर कार्यहेतोः ॥१०॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः । सद्गुणाकर चक्षुष्यस्तृतीयो जेसलाह्वयः ॥ ११॥ यशोमतिज्येष्ठसुता वरेण्या तथापरा श्रीरिति चारुपुत्री । सुशीलयुक्ताऽथ च रुक्मिणीति राजीमती तुर्यसुता वभूव ।। १२॥ ततश्च ॥ . ..
. श्रीवर्द्धमानाख्यपुरे वरिष्ठे संतिष्ठमाना सदयाऽन्यदाथ ।। श्रीदेवभद्राख्यमुनींद्र मूले शुभाव लक्ष्मीर्वरदानधर्म ॥ १३ ॥
तद्यथा ॥ विज्ञाय प्रवलप्रभंजनचलदीपांकुरालीसमं
लोके जीवितयौवनार्थविषयप्रेमाद्यशेष सदा ।
For Private and Personal Use Only