________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
[ रोगादि:
परिशिष्टोअथ रोगादिर्विशी वर्गः
(१) व्याधिः-गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः ।
रुान्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः॥१॥ (२) राजयक्ष्मा-राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः । उष्मा
शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥२॥ (३) पाण्डुः—पाण्डुरोगस्तु पाण्डुः स्यात् (४) विसर्पः-विसर्पः सचिवामयः। (५) शोफकासौ-शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥३॥ (६) क्षुतम्-क्षुतं तु क्षवथुः क्षुच्च (७) प्रतिश्यायः-प्रतिश्यायस्तु पीनसः। (८) नेत्रामयः-नेत्रामयो नेत्ररोगो (९) मुखरोगः-मुखरोगो मुखामयः॥४॥ (१०) दुश्चर्मा-तुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका । (११) कुष्ठम्—कुष्ठं तु पुण्डरीकः स्यात् (१२) श्वित्रम्-श्वित्रं तु चर्मचित्रकम् ॥ ५॥ (१३) किलासः-किलाससिध्मे च (१४ ) शिखी-शिखी श्वासः । (१५) पामा-पामा विचर्चिका । (१६ ) कण्डूः-कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥ ६ ॥ ( १७ ) संचार्यादयः-संचारी शुण्ठिकास्फोटे सूक्ष्मस्फोटे विचचिका ।
पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥७॥ ( १८ ) पिटका-पिटका विटका प्रोक्ता ( १९) मसूरिका-मसूराभा मसूरिका । ( २० ) विस्फोटः-विस्फोटः स्फोटकः स्फोटः (२१) केशनः-केशघ्नस्त्विन्द्रलुप्तकः ॥८॥ ( २२ ) गलशुण्डी-गलशुण्डी तु शुण्डा स्यात् (२३) गलगण्डः-मलगण्डो गलस्तनः । ( २४ ) दन्तार्बुदः-दन्तार्बुदो दन्तमूलं दैन्तशोथो द्विजत्रणः ॥९॥
१ झ. ढ. 'चिराम' । २ ज. 'री सिडिका । ३ ट. शुडिका । ४ झ. ढ. पामपामे । ५ झ. ढ. स्फोटा विचचिका । ६ ट. लकलिं तु । ७ ज. ट. दन्दशोफो।
For Private and Personal Use Only