________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः। अथ राजनिघण्टुसहितो धन्वन्तरीयनिघण्टुः ।
श्रीकामाक्ष्यै नमः। ॐ नमो विघ्नराजाय । अथ "धन्वन्तरीयनिघण्टुप्रारम्भः ।
तत्राऽऽदौ मङ्गलाचरणम् । नमामि धन्वन्तरिमादिदेवं सुरासुरैर्वन्दितपादपद्मम् ॥ लोके जरारुग्भयमृत्युनाशं धातारमीशं विविधौषधीनाम् ॥ १॥
ग्रन्थस्य कारणम् । अनेकदेशान्तरंभापितेषु सर्वेष्वथ प्राकृतसंस्कृतेषु ॥ गूढेष्वगूढेपु च नास्ति संख्या द्रव्याभिधानेपु तथौषधीषु ॥२॥ प्रयोजनं यस्य तु यावदेव तावत्स गृह्णाति यथाऽम्बु कुपात् ॥ तथा निघण्टाम्बुनिधेरनन्ताद्गृह्णाम्यहं किंचिदिहैकदेशम् ॥ ३ ॥ नामोक्तमेकस्य यथौषधस्य नामापरस्यापि तदेव चोक्तम् ॥ शास्त्रेपु लोकेषु च यत्प्रसिद्धं न गृह्यतेऽसौ पुनरुक्तदोषः ॥ ४ ॥ तुल्याभिधानानि तु यानि शिष्टै व्याणि योगे विनिवेशितानि ॥ अर्थाधिकारागमसंप्रदायैविभज्य तर्केण च तानि युयात् ॥ ५॥ किरातगोपालकतापसाद्या वनेचरास्तत्कुशलास्तथाऽन्ये ॥ विदन्ति नानाविधभेषजानां प्रमाणवर्णाकृतिनामजातीः ॥६॥ तेम्यः सकाशादुपलभ्य वैद्यः पाँच्च शास्त्रेषु विमृश्य बुद्ध्या ॥ विकल्पयेद्व्यरसप्रभावान्विपाकवीर्याणि तथा प्रयोगात् ॥७॥ पायो जनाः सन्ति वनेचरास्ते गोपादयः प्राकृतनामसंज्ञाः ॥ प्रयोजनार्था वचनप्रवृत्तिर्यस्मात्ततः प्राकृतमित्यदोषः॥ ८ ॥ * “गुडूच्यादिनिघण्टः” “द्रव्या वलिधन्वन्तरीयः" इत्येतौ क्वचित्पुस्तके पाठौ दृश्येते ।
१ घ. रसादिते । २ घ. च. यदौष । ३ क. ख. ग. च. च । ४ क. ग. च 'वेदिता । ५ घ. विचार्य त । ६ ग. घ. पाधिक । ७ क. घ. ततः । ८ क. ग. श्चात्सुशा । ख. श्चात्स्वशा। ९क च, भाववा । १० ग, जडाः। ११ छ. मतज्ज्ञा: । १२ ग. नार्थ व ।
For Private and Personal Use Only