________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मसार - आत्मानुभवाधिकार श्लोक ३९:४५
निन्द्यो न कोऽपि लोके, पापिष्ठेष्वपि भवस्थितिश्चिन्त्या। पूज्या गुणगरिमाढ्या, धार्यो रागो गुणलवेऽपि ।।१।।
ग्राह्यं हितमपि बालादालापैर्दुर्जनस्य न द्वेष्यम्। त्यक्तव्या च पराशा, पाशा इव संगमा ज्ञेयाः ।।२।।
स्तुत्या स्मयो न कार्यः, कोपोऽपि च निन्दया जनैः कृतया। सेव्या धर्माचार्यास्तत्त्वं जिज्ञासनीयं च ।।३।।
शौचं३ स्थैर्यमदम्भो, वैराग्यं ६ चात्मनिग्रहः कार्यः।" दृश्या भगवतदोषोश्चिन्त्यं देहादिवैरूप्यम् ।।४।।
भक्तिर्भगवति धार्या,२० सेव्यो देशः सदा विविक्तश्चा" स्थातव्यं सम्यक्त्वे,२ विश्वास्यो न प्रमादरिपुः२३ ।।५।।
ध्ये यात्मबो धनिष्ठा, सर्वत्र वागमः पुरस्कार्य ः।२५ त्यक्तव्याः कुविकल्पाः, स्थेयं वृद्धानुवृत्त्या च ।।६।।
साक्षात्कार्य८ तत्त्वं, चिद्रूपानन्दमे दुरै भाव्यम्। हितकारी ज्ञानवता, मनुभववेद्यः प्रकारोऽयम् ॥७।।
IAL
For Private And Personal Use Only