________________
Shri Mahavir Jain Aradhana Kendra
कातन्त्र (सारस्वत) विभ्रमे
॥। २७ ॥
www.kobatirth.org
नमः सरस्वत्यै ।
श्रीकातन्त्र (सारस्वत ) विभ्रमसूत्रं सवृत्तिकं लिख्यते.
Acharya Shri Kailassagarsuri Gyanmandir
नत्वा जिनेन्द्रं स्वगुरुं च भक्त्या, तत्सत्प्रसादाप्तसुसिद्धिशक्त्या । सत्सम्प्रदायादवचूर्णिमेतां, लिखामि सारस्वतसूत्रयुक्त्या ॥ १ ॥ प्रायः प्रयोगा दुर्ज्ञेयाः, किल कातन्त्रविभ्रमे ।
येषु मोमुद्यते श्रेष्ठः, शाब्दिकोऽपि यथा जडः ॥ २ ॥
कातन्त्रसूत्रविसरः खलु साम्प्रतं यत्, नातिप्रसिद्ध इह चातिखरो गरीयान् । स्वस्येतरस्य च सुबोधविवर्द्धनार्थास्त्वित्थं ममात्र सफलो लिखनप्रयासः ॥ ३ ॥ कस्य धातोस्तिवादीनामेकस्मिन् प्रत्यये स्फुटम् । परस्परविरुद्धानि रूपाणि स्युत्रयोदश ॥ १ ॥ 'कस्ये' त्यादि प्रश्नोऽत्र उत्तरं, गिरतेरवपूर्वस्यानद्यतन्यामात्मने पदे मध्यमध्वमि सम्प्राप्ते रूपाणि स्युखयोदश, 'गु निगरणे' गृ अष्टसु स्थानेषु स्थाप्यः अवपूर्वः, अग्रे अनद्यतनध्वंप्रत्ययः, ' भूते सि' (७-२-७ ) रिति सिः, इकारस्योच्चारणार्थत्वात् स्,
For Private and Personal Use Only
१. श्रोक्रे १.३ रूपाणि
॥। २७ ॥