________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
किं गीतं कष्ठहीनस्य, किं रूपंगुणहीनस्य । किं धनं दानहीनस्य, मानहीनस्य भोजनम् ॥ ५३ ।।
नराणां नापितो धूर्तः, पक्षिणां चैव वायसः । पशूणां शृगालो धूर्तः, नारीणां चैव मालिका ।। ५४ ॥
ब्राह्मणानां धनं विद्या, क्षत्रियाणां धनं धनुः । ऋषीणां च धनं सत्यं, योषिता यौवनं धनम् ॥ ५५ ॥
तुष्यन्ति भोजनैर्विश्रा, मयूरा धनगर्जितैः । साधवः परकल्याणैः, खला परविपत्तिभिः ॥ ५६ ॥
वैद्यराज ! नमस्तुभ्यं, यमराज सहोदर ! । यमस्तु हरते प्राणान् , त्वं च प्राणान् धनानि च ॥५७॥
उद्यमेन विना राजन् , सिद्धन्ति न मनोरथाः। कातरा इति जल्पन्ति, यद्भाव्यं तद्भविष्यति ॥ ५८ ॥
कामलुब्धे कुतो लज्जा, धर्महीने कुतः क्रिया। मद्यपाने कुतः शौचं, मांसाहारे कुतो दया ॥५९ ॥
For Private And Personal