________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् , नोलूकोप्यवलोक्ते यदि दिवा सूर्यस्य किं दूषणम् ? धारा नैत्र पतन्ति चातकमुखे मेघस्य किं दूषणं ? यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥४०॥
कथमुत्पद्यते धर्म:, कथं धर्मो विवद्धते । कथं संस्थाप्यते धर्मः; कथं धर्मो विनश्यति
॥४१॥
सत्येनोत्पद्यते धर्मो, दया दानेन वद्धते । मायाः स्थाप्यते धर्मः, क्रोधलाभाद्विनश्यति
॥४२॥
अहिंसा लक्षणो धर्मः, अधर्मः प्राणिनां वधः । तस्माद्धर्मार्थिभिर्लोकः, कर्तव्या प्राणिनां दया
॥४३॥
जीवानां रक्षणं श्रेष्ठं, जीवाजीवितकांक्षिणः । तस्मात् समस्तदानेभ्यो-ऽभयदानं प्रशस्यते
॥४४॥
न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफलाः
॥४५ }
For Private And Personal