________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
प्रदेशी विलोक्य सापल्यतो हृद्यतीवखिन्नेव दाणं सामानना समजनि. निशाकरोऽपि निजं विलासवती || चरित्रं
विलासिनी पूर्वाशां दिनकरोत्संगसंगिनी तत्संजोगरंगरंगरंजितां च विलोक्य वज्रहतदग्वहृदय ज्ञ परिपक्वपलाशपर्णपांडवोऽपास्ततेजस्कवदनः समजायत. निजनायकोरुपादप्रचारप्रबुधाः कासाररम्यावासस्थिताः कमलिन्योऽपि विकसितवदना अमरनरमिषेण शरीराहितसुरभिकस्तूरिकाविपनाः, पवनप्रेरितजलोमिमालानिरितस्ततो विलोमनमिषेण निजनायकोत्संगसंगरंगौत्सुक्यं व्यंजयंत्य व कंपमानाः समजायंत. पतिविरहातुरा वराकी चक्रवाकी निशावसानपर्यंत रुदनपरा निजनयनविनिर्गताश्रुधारादनेन रजनीपति शापोजारवर्षणवर्षणानंतरं क्रमेणारुणोदयविज्ञाततदवसानामंदानंदोच्छु. सितहृदया निजमधुरचित्कारनादेर्दिनकरं दीर्घायुराशीर्वादध्वनिन्निः सत्कारयंतीव निजपतिसंगममाप्य सुखजाजनं जाता. सन्मानसंगमासक्तहृदया हंसा थपि स्वकीयसुहृदो हंसस्योदयं निरीक्ष्य सना श्व संमदसंदोहोत्फुलहृदया निर्मलोरुपदायाः कमलाकराप्तिसंतुष्टचित्ता अभवन. तिग्मरुचिरपि निजोदयं वीक्ष्य निजोग्रकरप्रचारैः स्वकीयारितमसोतं विधाय तदाश्रयवितरणपरमाकाशमंडलमपि चपलं विबिन्नश्रवणकर व्यधात्. पुनरपि लब्धोदयमुदयाचलोकार्तस्वरसिंहासनस्थं राजानमिव ।
For Private And Personal Use Only