________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी- रसां दिव्यनृत्यानुसारिवंशकांस्यादिमधुरध्वनिबंधुरगर्जनैर्निखिलमपि गगनमंमलं पूरितं समजनि. चरित्रं र पटहभंगादुंदुभिमबर्यादिगंजीरध्वानः प्रतिगजगर्जनाकुलितहृदया व दिग्गजेंः समजायंत.
एवं हात्रिंशत्प्रकार दिव्यं नृत्यं विधाय संतुष्टहृदयः सूर्याभदेवः स्वपरिवारपस्थितो जगवंतं वर्धमानं जक्तिनरावनतदेहो विनयेन नत्वा स्वालयं जगाम. तस्य गमनानंतरं श्रीगौतम स्वामी वीरपतुं नत्वापृछत, हे भगवन् ! कोऽयं दिव्यदेहधारी सुरः ? कुतो वेदृशी समृछिस्तेन प्राप्ता ? तन्निशम्य भगवानुवाच नो इंद्रनुते ! स तु सुयोजनामा सुखरोऽस्ति, प्राप्ता चेद्दशी समृधिस्तेन पूर्वकृतपुण्यप्रभावात्. तत् श्रुत्वाप्तचेतश्चमत्कृतिरिंचतिरुवाच, हे जगवन् ! तह पुण्यप्रौढस्य तस्य सुखरस्य पू. वैभवसंबंध्यपूर्व चरित्रं नवबदनारविंदात् श्रोतुमिहामि. नगवानुवाच भो इंद्रवते ! तर्हि विपश्चिचित्तचमत्कारकारकं मया वर्यमानं तत्पूर्वभवचरित्रं सावधानमनसा निशम्यतां. ॥ इति पूर्वविरचि ताशुष्पद्यबंधप्रदेशिचरित्रानुसारेण जामनगरनिवासिपंमितश्रावकहंसराजात्मजहीरालालविरचिते गद्यबंधे प्रदेशिचरित्रे प्रथमः सर्गः समाप्तः ।। श्रीरस्तु ।।
For Private And Personal Use Only