________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी
चरित्रं १३३
नेका श्रापदः समुद्भवंति. वैद्यकलाकुशखैरप्यगदंकारैरसाध्यो विदुषामपि हृदयोन्माथसमर्थो मन्मथः । ज्वरो नानाविधशीतोपचाराणामप्यगम्यः प्रांते देहिनां देहं विनाशयति. निर्मलशीलालंकारालंकृता मनुजा हापि स्पृहणीययश-कीर्तिकमलादिसमुद्भवममितं सुखसंचयं समासाद्य परत्रापि वचोऽतिग. शर्मनाजनसरांगनास्पृहणीया नवंति. यथा शीलालंकारालंकृतः सुरप्रियाभिधो दिजः परस्त्रीत्याग योगेन परमोत्कृष्टशर्मपरंपरां समवाप्य सुराणामपि प्रियो वनव. अथैवं मुनीशमुखकमलोद्भवं चतुर्थ व्रतब्रह्मचर्योरुमाहात्म्यसूचकमुपदेशमकरंदं निपीय चंचरिक श्व समासादितपरमप्रमोदः प्रदेशित पालो गणधरेंद्रचरणारविंदयोर्निजमस्तकं निधाय कृतांजलिर्जगो, हे भगवन् ! कोऽसौ सुरप्रियः ? कथं च तेन ब्रह्मवताराधनेन सुखसंततिः संप्राप्ता? तस्य निखिलमपि सरसमुदंतं प्रकटीकृत्य मम हृ. दयाह्लादमुल्लासयत ? अथैवंविधां परमप्रमोदसूचकां प्रदेश्यवनीशवाचं निशम्य केशिकुमारगणधरेंद्रो. अवि मेघगजीनिजध्वानेन प्रदेशिवपालमनोमयरमुल्लासयन, मोहोरपंचाननंप्रति भयमुत्पादयन्नुवाः च, तीर्थकरजननादिकल्याणकारिकल्याणकोरुप्रभावेण निरस्ताखिलेतिसंजवसंतापे, जिनेशोपदेश: सुधाधारातिसिक्तोरुनव्यक्षेत्रे मगधाख्ये जनपदे, मनोरम्यानेकहालिपस्मिंडितं, मनोहरफलप्रदा.
For Private And Personal Use Only