________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 * श्रीपञ्चमी ( वसन्तपञ्चमी ) व्रतपूजनप्रयोमः * ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः / लम्बोदरश्च विकटो विघ्ननाशो विनायकः // 1 // धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः / द्वाद शैतानि नमानि यः पठेच्छृणुयादपि // 2 // विद्यारम्भे विवाहे च प्रवेश ॐ निर्गमे तथा / सङग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते // 3 // शुक्ला बरधरं देवं शशिवर्णं चतुर्भुजम् / प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥४॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः / सर्वविघ्नहरस्तस्मै गणाधिपतये नमः // 5 // सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके / शरण्ये त्र्यम्बके गौरि, नारायणि नमोऽस्तु ते॥६॥ सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् / येषां से ॐ हृदिस्थो भगवान मङ्गलायतनं हरिः॥७॥ तदेव लग्नं सुदिनं तदेव तारा For Private and Personal Use Only