________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
গীসন্তান ४७ श्रेय सङ्करमाह
यत्राङ्गाङ्गित्वभेदेन स्वातन्त्र्यं नैव दृश्यते । अलङ्कृतीनां विद्वद्भिः स सङ्कर इति स्मृतः ॥ ७३ ।। तवाधरं बिम्बफलोपमं प्रिये !
दशत्यसौ कीरयुवा दिवानिशम् । भृगोऽप्यथो हास्यसितं विलोकय
न्सुसौरभं पुष्पधिया प्रयात्ययम् ॥ १०८ ।। अत्र स्त्रियं प्रति कान्तस्योक्तिः। 'बिम्बफलोपमम्' इत्युपलिङ्कारः, 'शुको दशति' इति भ्रान्तिमान , यतः शुकस्य चित्ते
रक्तत्वाभ्रान्तिः; 'हास्यसीतम्' इत्युक्तेऽतद्गुणः, 'अयं भृङ्गोऽ ने प्रयाति' इति समासोक्तिः, इत्यलङ्काराणां सङ्करः । अथानिश्रयमाह
अकस्य यत्र स्वीकारे साधकं वाथ बाधकम् । न लभ्यते स कथितोऽनिश्चयाख्यो मनीषिभिः ।।७४।। अब्जमेतत्कुरङ्गानि ! हृदयाहाददायकम् । विजृम्भते चकोरस्य कुर्वदेतस्य पारणम् ।। १०९ ॥ * अब्जम्' इति चन्द्रपङ्कजयोः श्लेषः, किंबा वक्र विज़म्भते ? । समासोक्तिः, 'एतस्य चकोरस्य पारणां कुर्वत्' इति अप्रस्तुशंसा, अत्र कश्चिदलङ्कारः कस्यापि साधको न कस्यापि बाधको स्ति ।
इति श्रीजिनभक्तन मण्डनेन विनिर्मिते । पञ्चमोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ ७५॥
For Private and Personal Use Only