________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्.
संनिर्जितो हरिणशावविशालनेत्रे त्वन्मध्यमेन तनुमध्यधरो मृगेन्द्रः । शक्नोति नो तव विरुद्धमयं विधातुं त्वनेत्रचित्रनयनां हरिणी क्षिणोति ॥ ८५ ॥
त्वत्पादपद्मे नयनाभिरामे तादृकपयोजद्वयमिन्दुवक्त्रे ! | तत्सेवकं कर्त्तुमिदं च पादैः सन्तापयत्येष रुषा मृगाङ्गः ८६ भाविकमाह
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः । तद्भाविकमिति प्राहुरलङ्कारविदो यथा ।। ५६ ।
आसीनृसिंहस्य तवातिसेवा संभाव्यते साधुधियेति साधो ! । वनेष्यति स्वस्य पदारविन्दद्वन्द्वान्तिकं सोऽद्य ममेति बुद्धिः ॥ ८७
उद्दातमाह
बाहुल्यमति वस्तूनां यत्रोदात्तं तदुच्यते ।
राजाङ्गणं तव करीन्द्रमदाम्बुधारपङ्काविलं परिजनाङ्घ्रिविलेपभीत्या ।
मुक्ताफलप्रकरशर्करिलं विभाति
रत्नोपलामल निबद्धमिदं मुरारे ! ।। ८८ ।।
अधिकमाह
यत्राधारोऽथवाऽऽधेयमाधाराधेययोर्महत् । महतोरपि जायेत लघुत्वेऽप्यधिकं तु तत् ॥ ५७॥
रत्नाकर ! महत्त्वं ते वर्ण्यते किमतः परम् । यस्मिन्विशालाः सरितो मान्ति त्रैलोक्यसम्भवाः ।
For Private and Personal Use Only