________________
Shri Mahavir Jain Aradhana Kendra
३००
सालङ्कारचूडामणी काव्यानुशासने
यास्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव तद्वारेण तु रसे उपयोग इति गुणप्रकरण एव वक्ष्येते इतीह नोक्ते ॥ २५ ॥
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
इत्याचार्यश्री हेमचन्द्र बिर चितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ प्रथमोऽध्यायः ॥
दाविति तथा हि- 'अभिज्ञानशाकुन्तलं विक्रमोर्वशीयम्' इत्यादीनि शृङ्गारस्य, महावीरचरितम्, वेणीसंहारः' इत्यादीनि वीरस्य, 'उत्तररामचरितम्' करुणस्य - 'भर्तृहरिनिर्वेदम्' शान्तस्येत्यादिरीत्योदाहरणं बोध्यमिति भावः । 'वर्णरचनायास्तुइति पाठोsपपाठः, वर्ण-रचनयोरित्येव प्रकरणोपयोगी, पदांशरूपवर्णस्य संघटना, रूपरचनायाश्च न साक्षाद्वसादिव्यञ्जकत्वमपि तु माधुर्यादिगुणव्यञ्जनद्वारेति तत्तद्गुणलक्षणावसर एव तदुदाहरणं वक्ष्यते इत्याह-वर्ण-रचनयोस्त्वित्या' दिनेति । साक्षान्माधुर्यादिव्यञ्जकत्वमेवेति- एवकारेण वस्त्वलङ्काररसादिव्यञ्जकत्वव्यवच्छेदः । तद्वारेणेति गुणद्वारेणेति भावः । एवं च परम्परया रसव्यञ्जकत्वं तयोरिति । अयमाशयः - गुणानां रसैकधर्मत्वस्य " रसस्योत्कर्षापकर्षहेतू गुणदोषौ" इत्यादि प्रकृताध्यायस्थद्वादशसूत्रेण निर्णीतत्वात् तैः साक्षादेव रसानां सम्बन्धः, वर्ण-रचनयोस्तु गुणैः सह साक्षादिति तयोर्गुणaita रसव्यञ्जकत्वमिति फलितम् ॥ २५ ॥
i.wwwww
इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीतस्य स्वोपज्ञालङ्कारचूडामणिवृत्तिसंवलितस्य काव्यानुशासनस्य प्रथमाध्याये तपोगच्छाधिपति शासनसम्राट् सर्वतन्त्र स्वतन्त्र - श्री विजयने मिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद कविरने तिपदालङ्कतेन विजयलावण्यसूरिणा विरचितः प्रकाशः ॥
WWW
wwwwwww
For Private And Personal Use Only