________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने चरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् । एवं च वस्तुनोऽलङ्कारज्याकत्वेऽलङ्कारस्य च वस्त्वलकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम् ॥२४॥
रसादिश्च ॥ २५॥ रस-भाव-तदाभास-भावशान्ति-भावोदय-भावस्थिति-भाव
ते हृदये इत्याशयः, एवं च कस्याश्चिद् विरहेनेयं तवास्थेति व्यज्यते, तथा च वस्तुनो वस्तुव्यञ्जकत्वं प्रबन्धगतमिदम् । एवं विषमबाणलीलायां कामदेवस्य सहचराणां वसन्तादीनां समागमे यथा-"हुमि अहत्थिअरेहो णिरंकुसो अङ्क विवेभरहिओ वि । सिविणे वि तुज्झ समए पत्तिअभत्तिं न पुप्फुसिमि ॥"[वि. ली.], "भवाम्यहास्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि । स्वप्नेऽपि तव समते! पत्नी [क] भक्तिं न प्रमामि" इति संस्कृतम् , इदमपि पद्यमप्रकरणज्ञानादनुद्भिन्नाशयमिव, ध्वन्यालोकटीकालोचनोदाहृतपद्यतः पाठभेदोऽपि, तत्रापि चेदं पद्यमव्याख्यातमेव, यौवनोक्तिरियम् , यौवनः कथयति-अहम् . अहस्तितरेखःरेखां मर्यादामस्वीकुर्वनपि, अत एव निरङ्कुशोऽथ च विवेकरहितोऽपि भवामि वरम्, तथापि हे समते! तव पत्नीभाक्त-त्वद्विषये पत्नीभावं न प्रमामि न त्यजामि । अनेन यौवनस्वभावरूपं वस्तु व्यज्यते । तथा चेदमपि प्रबन्धगतं वस्तुनो वस्तुव्यञ्जकत्वम् । प्रबन्धगतं वस्तुनोऽलंकारव्यञ्जकत्वम्, अलङ्कारस्य च वस्तुव्यञ्जकत्वमलङ्कारभ्यञ्जकत्वं च स्वयमुत्प्रेक्ष्यमित्यतिदिशति-एवं च वस्तुनोऽलङ्कारव्यञ्जकत्व इत्यादिना ॥ २४ ॥
रसादिश्चेति सूत्रं पूर्वसूत्रसम्बद्धम् , तथा चार्थशक्तिमूलव्यङ्ग्यानां भेदप्रस्तावे पूर्वमर्थशक्तिमूलेन वस्तुनाऽलङ्कारेण च प्रत्येकं वस्त्वलङ्कारयोर्ध्वनिरुक्तः, साम्प्रतमर्थशक्तिमूलो रसादिध्वनिरनेन सूत्रेणोच्यते । रसादिरित्यत्रादिपदेन संग्राह्यान् कण्ठत आह-रसभावतदाभासेत्यादिना । ननु रसमात्रस्यैव काव्यजीवातुभूतत्वं श्रुतं तदन्येऽमी भावतदाभासादयः क इति चेत् ? अत्रोकं विवेके यद्यपि रसेनैव सर्व काव्यं जीवति, तथापि तस्य रसस्यैकघनचमत्कारात्मनोऽपि [एक:-मुख्यो धनः-निबिडो वेद्यान्तरस्पर्शशून्यश्चमत्कार:-चित्तविस्ताररूप एवात्मा-स्वरूपं यस्य तथाभूतस्यापि] प्रयोजकीभूतं कमप्यंशमाश्रित्यासौ चमकारोऽतिशयं लभते तदाऽसौ तत्प्रयोजकीभूतविशेषनिबन्धनामन्यामन्यां ख्याति
For Private And Personal Use Only