________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ अर्हम् ॥ आशैशवशीलशालिने श्रीनेमीश्वराय नमः | कलिकालसर्वज्ञ - भूपालावलिमौलिमालालालित ललितचरणारविन्दद्वन्द्ववादिवृन्दारकवृन्दवारणनिवारणपञ्चानन - श्री हेमचन्द्रसूरिभगव द्विरचितं स्वोपज्ञालङ्कारचूडामणिव्याख्यासमलङ्कृतं
काव्यानुशासनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः । प्रणम्य परमात्मानं, निजं काव्यानुशासनम् I आचार्यहेमचन्द्रेण, विद्वत्प्रीत्यै प्रतन्यते ॥ १ ॥
तपोगणगगनाङ्गणगगनमणि - शासनसम्राट् - सर्वतन्त्र स्वतन्त्र - श्री विजयनेमिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति- शास्त्रविशारद - कविरनेतिपदालंकृतेन श्रीविजयलावण्यसूरिणा विरचितः
प्रकाशः ।
समं सर्वत्रैव स्फुरदमृतगुः कौशिकमुदं, विधत्ते सत्तेजः कुमुदवनसौभाग्यरसिकः । न मन्देनापेक्ष्यः क्षपयतितरामान्तरतमो
जिनेन्द्रो भव्यानामभिनवदिनेन्द्रो विजयते || १ [ शिखरिणी । ] येनोदञ्चति कौमुदच्छविततिर्यस्तारकोपासितः,
सर्वाशा सुखसम्पदां प्रथयिता शश्वत् सुधामाश्रयन् । यश्वञ्चद्धरिणाङ्कितः शमनिधिः सद्वृत्तसौभाग्यभूवन्देऽज्ञानतमोहरं बुधवरं वीरं तमिन्दुं सदा ॥ २ ॥ [ शार्दूलविक्री० । ] अमन्दं दीव्यन्ती सरससुमनोमानसमिता, जडोल्लासी भट्ट्या विलसितमरुत्पक्षकृतया । कलध्वाना सम्यग्गतिरुपचिता मौक्तिकफलै
जिनोक्ता गीराली विलसति मरालीव जगति ॥ ३ ॥ [ शिखरिणी ! ] यत्कृत्यध्ययनेन मन्दमतयोऽप्यस्मादृशो व्याकृतौ,
काव्ये तत्त्वविमर्शशास्त्रनिचये चाप्तप्रवेशा वरम् ।
For Private And Personal Use Only