________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १६ ।
१७७
अयमत्र प्रकारः चातुर्विध्योपपत्तेः-सर्वेषां शब्दानां स्वं स्वमर्थमभिधातुं प्रवर्तमानानां प्रवृत्तिनिमित्तभेदः स्पष्टमुपदृश्यते, स च भेदः [विवेकः ] किंनिबन्धन इति जिज्ञासायामुपाधिनिबन्धनस्वमेतस्य प्रतिभाति, उपाधेरेव भेदकतया प्रसिद्धः । उपाधिश्च द्विविधः-वक्तृसन्निवेशितो, वस्तुधर्मश्च, तत्र प्रथमो वा यदृच्छया संज्ञितत्तद्रव्यादिविषयकशक्तेरभिव्यक्तिं परिकल्प्य संज्ञिनि संनिवेशितः, यथा डिस्थादीनां शब्दानामन्त्यबुद्धिनिर्गाह्य संहृतक्रमं स्वरूपं संज्ञिनि सन्निवेश्यते, डित्थ-डवित्थ-देवदत्त-यज्ञदत्तादिशब्दाः प्रथमादिवर्णबुद्धिजनितसंस्कारसहकृतान्तिमवर्णबुद्धि निर्ग्राह्यस्वरूपा वक्त्रा तद्वयक्तिबोधकत्वशक्तिमभिव्यञ्जयता तत्र तत्रार्थे निवेश्यन्ते, तन च शब्दे तेषां तादृशं स्वरूपमेवोपाधिः, तन्निबन्धनैव च तेषां प्रवृत्तिः, त एव च यदृच्छाशब्दा इत्युच्यन्ते । अयमाशयः-डित्थोऽयमिति संकेतेन डकारोत्तरेकारोत्सरतकारसहितथकारोत्तरावरूपाऽनुपूर्वी तत्र द्रव्ये बोधकत्वेन सनिवेशिता, तत्र तादृश्या आनुपूर्व्याः स्वरूपमेकीकृत्य दर्शयितुं न शक्यमिति पूर्वपूर्ववर्णजनितसंस्कारसहकृताऽन्त्यवर्णोऽभिव्यक्तः स्फोट एव तादृशानुपूर्वीबोधक इति तादृशानुपूयैव यत्रोपाधिः स यदृच्छाशब्दः । ये च स्फोटं न मन्यन्ते तेषां मते डकारादिवर्णातिरिक्तं डित्यादिशब्दस्वरूपं संहृतक्रम निर्देष्टुमशक्यमिति वक्तृयदृच्छाभिव्यज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादेः शब्दस्य तत्तत् तत्तत्संड्यभिधानाय प्रवृत्तत्वात् डिस्थादीनां यदृच्छाशब्दस्वमुपपद्यत एव ।
द्वितीयस्य वस्तुधर्मस्य च द्वैविध्यं सिद्धसाध्यभेदात् , तत्र साध्योपाधिमूलकत्वं क्रियाशब्दानाम् , साध्यत्वं हि उत्पाद्यमानत्वं पूर्वापरीभूतावयवक्रियारूपत्वमिति यावत् , पापरीभूता:-क्रमिकाः, अवयवाः-एकदेशा अधिश्रयणायवश्रयणान्ता यस्यास्तादृशी क्रियैव साध्यत्वेनाभिधीयत इति यावत् । क्रियान्तराकाङ्क्षानुत्थापकताऽवच्छेदकरूपवत्त्वं कारकान्वयितावच्छेदकरूपवत्त्वं वा साध्यत्वमिति केचित् , यथा-पचतीति, पचतीत्यत्र हि साध्यत्वेनैव क्रिया प्रतीयते । सिद्धोपाधेरपि द्वैविध्यं जाति-गुणभेदात् , तत्र वस्तुनः प्राणप्रद उपाधिोतिः, प्राणनं प्राणो व्यवहारयोग्यता, तपदः-तनिर्वाहक इत्यर्थः । तथा च 'प्राणप्रदत्वं यावद्वस्तुस्थितिसम्बन्धिस्वम्' इति नरसिंहठकुरादयः, सर्वथाऽपि वस्तुनस्तन्मात्रमूलस्तब्यवहार इति भावः । नहि कश्चित् पदार्थो जातिसम्बन्धं विना स्वरूपं
का० १२
For Private And Personal Use Only