________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० १४ ।
१६५
..
.......... amanarainraanaamaamaramananta......
जगदाक्रन्दकारित्वाद्यर्थान्तरं प्रतिपादयजनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते, ऐश्वर्य पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्व लोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैव रावणचेष्टितं निर्वाहणीयम् । यत्त्वन्यदुपात्तं 'क्व नु पुनर्' इति, तद् यदि ससंदेहत्वेन योज्यते अथाक्षेपत्वेनाथापि नेदृग्वरो लभ्यत इत्यत्रार्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथञ्चिनिर्वाहः ।
श्लोक उक्त इत्युक्तं प्राक् , अस्यां दशायां रावणोपेक्षैव विवक्षितेति निश्चितम् , सा च 'स्याञ्चेदेष न रावणः' इत्यतावतैव समर्थिता, रावणपदस्य जगदाक्रन्दकारकत्वरूपार्थान्तरसमितवाच्यत्वात् , इति तत्पर्यन्तमेव कथनीयं, क नु पुनरित्यादि ना प्रतिपादनीयमिति, तदेव प्रदर्शयति-तथाहीत्यादिना । जगदाक्रन्दकारित्वाद्यर्थान्तरं प्रतिपादयदिति रावण इति पदं लोकपीडनद्वारा जगदाक्रन्दकारिरूपेऽर्थान्तरे संक्रमितवाच्यमित्युक्तपूर्वम् , तादृशं च तत् पदं जनकस्य हृदि स्थितं स्वप्रतिज्ञानिर्वाहकत्वादिरतिस्थायिभावं धर्मवीररसं प्रत्यनुभावतां [अस्य रावणत्वाभावे मत्प्रतिज्ञातपूर्तावयं सम्यक् सहायकः स्यादिति बुद्धिर्हि तादृशरसस्यानुभावस्तद्विषयत्वेनास्यार्थस्य तत्ताव्यवहार इति कार्यतां प्रतिपद्यते, किन्तु ऐश्वर्यम् आज्ञाशकशिखामणिप्रणयिनीति शब्देन प्रतिपादितम् , पाण्डित्यं शास्त्राणि चक्षुर्नवमिति रीत्योपनिबद्धम् , परमेशभक्तिः, भक्तिर्भूतपतौ पिनाकिनीत्येतावताऽभिहिता, देशविशेषो लङ्केति दिव्या पुरीत्यनेन वर्णितः, अभिजनः 'उत्पत्तिद्रुहिणान्वये' इत्यनेन निरूपितः, इत्येतत् सर्व धर्मवीररसोद्दीपनविभावजातम् , लोकमपबाघमानस्येति रावणपदेनार्थान्तरसंक्रमितेनोक्तस्य धर्मवीरसामग्रीविरुद्धस्य, अधर्मपरस्य दशमुखस्य, नार्थक्रियाकारकत्वं न प्रतिज्ञातार्थपूर्तिकारकत्वेन सम्मतमिति तावतः पूर्वोक्तैश्वर्यादिरूपस्यार्थस्य, तिरस्कारकत्वेनैव दूषकत्वेनैव एतच्छोकोपक्रमणिकोक्तशतानन्दवाक्यवाच्येन, रावणचेष्टितं जगदानन्दकारणादिरूपं, निर्वाहणीयं समर्थनीयम् । यत् स्वन्यत् तद्विरुद्धम् , व नु पुनरिति-एतदादिपद्यांशेन, उपात्तम् प्रतिपादितम् , तद् यदि ससन्देहत्वेन संशयोक्तिरूपससन्देहालङ्कारत्वेन, अथ अथवा, आक्षेपत्वेन विवक्षितस्य निषेधकल्पस्वेन, अथ अथवा, नेदृग्वरो लभ्यत
For Private And Personal Use Only