SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशामिघविवृतौ अध्या० १; सू०११। कीटानुवेधो हि मूल्येऽरूपत्वमुपादेयतांशे तारतम्यं वा प्रयोजयति, न तु तस्य रत्नत्वं ब्याहन्ति, तथैव काव्ये दोषाणां तदीयन्यूनकोटितामात्रप्रतीतिकरवाऽभ्युपगमात् , इत्यदोषाविति लक्षणे नैव वाच्यमित्याहुः । अत्रोच्यते-दोषत्वं नाम-उद्देश्यप्रतीतिप्रतिबन्धकत्वम् तच्च तद्वाच्यव्यङ्ग्यवैचित्र्यप्रतीतिविरहविशिष्टदोषस्य तदानस्य वाऽङ्गीक्रियते प्रतीतिबलात्, इति "न्यक्कार" इति पद्ये विशिष्टाभावसंभवान काव्यत्वक्षतिः, तथाहि-तत्र व्यङ्ग्यप्रतीतेः सत्वेन व्यङ्गयवैचित्र्यप्रतीतिविरहस्यासत्वान्न दोषत्वमिति काव्यत्वमक्षतमेव, ये प्रति न व्यङ्ग्यवैचित्र्यप्रतीतिस्तं प्रत्यस्याकाव्यत्वमेवेति, अत एवं "वक्रायौचित्यवशाद् दोषोऽपि गुणः क्वचित्" इति [का०प्र० सू० ८१] इति सूत्रे लक्ष्यते; तथा, अप्रतीतत्वं तच्छास्त्रज्ञ प्रत्यदोषः, अन्यं प्रति तु दोष इति, "कीटानुविद्धरत्नादि-साधारण्येन कान्यता। दुष्टेष्वपि मता यत्र रसायनुगमः स्फुटः ॥"[ ] इत्यभियुक्तोक्तिबलेन नित्यदोषदुष्टस्यैवाकाव्यत्वमिति न काऽपि हानिः । अयमाशयः-दोषो द्विप्रकारकः-एक उस्कटो द्वितीयोऽनुस्कटः, प्रथमश्श्युतसंस्कारादिः, यः सर्वत्र दोष एव, द्वितीयो भग्नप्रक्रमादिः, यथा काये श्वित्रादिस्तथा प्रथमः, यथाऽनतिधनपक्ष्मलोचनत्वादिस्तथा द्वितीयः, प्रथमप्रकारेण दोषेण स्वरूपं निहन्यते, उत्कटतया सद्य एव रसापकर्षत्वात् , द्वितीयेन तु बहुशः क्षोदे कृते केवलं प्रतीतिरपकृष्यते, चमत्कारजनकत्वं स्वव्याहतमेव तिष्ठति, तदेव च काव्यजीवातुभूतम् । तथा च 'अदोषौ' इति लक्षणे प्रतिषेध्यदोषगणे प्रथमकोटिस्थितानामुत्कटानां दोषाणामेव ग्रहणमिति न कोऽपि दोष इति पटीयान् पन्थाः ॥ निर्गुणेऽतिव्याप्तिवारकं विशेषणमाह-सगुणाविति-माधुर्योजः-प्रसादाख्या ये गुणास्तत्सहितावित्यर्थः, गुणानां रसैकनिष्ठानामपि परम्परया रसाभिव्यञ्जकशब्दार्थनिष्ठत्वं बोध्यम् , तथा चोक्तं काव्यप्रकाशस्याष्टमोल्लासे-"गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता।" इति, गुणस्य रसनिष्टत्वेऽपि तद्व्यञ्जकपरं गुणपदमिति प्रदीपकार माह; तब्यक्षकेत्यनेन "मूर्ध्नि वर्गान्त्यगाः स्पर्शाः, अटवौं रणौ लघू ।। भवृत्तिरल्पवृत्तिर्वा माधुर्ये घटना तथा ॥" [का० प्र० उ० ८ का० ७४] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy