________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३०-३१]
उपाङ्गसाधनम्
३४९
आकृष्टः खगतिं दद्याद्भुवो ब्राह्मणविग्रहम् ।। विद्याधराश्च गुलिकां सिद्धाश्चैवाञ्जनं महत् ॥ ११०॥ प्रयच्छन्ति सदाऽऽकृष्टा मन्त्रस्यास्य प्रभावतः । पागुक्ता गुलिका कार्या राज्ञां च सपरिच्छदाः (?) ॥ १११॥ मन्त्री चाङ्कुशमन्त्रेण ध्यानयुक्तेन साधयेत् । ध्यानाजपात्तथालेख्याधवनात्पूजनान्मुने ॥ ११२ ॥ करोत्यकुशमन्त्रस्तु अभीष्टमपरे तथा । कौस्तुभाघाश्च वै मोक्तास्त्वखण्डविधिसाधिताः ॥ ११३॥ निखिलं संप्रयच्छन्ति भावशुद्धिसमन्विताः । युगशक्त्यनुसारेण सुसहायगुणेन च ॥ ११४ ॥ कृते एतच्च मन्त्राणामुक्तं संसाधनं मया ।। त्रेतायां द्विगुणं विद्धि त्रिगुणं द्वापरे स्मृतम् ॥ ११५॥ कलौ चतुर्गुणं चैव भावज्ञस्य च वै पुनः । पीतिभक्तिसहायस्य श्रद्धानिष्ठस्य तत्त्वतः ॥ ११६ ॥ सदा सदा .... .... विद्धि जपहोमादिकं तु यत् । तस्माद्भाव तथा भक्तिमेकत्र कुरु नारद ॥ ११७॥
साधनं सर्वमेकत्र समं तत्रापि वा न वा। इति श्रीपांचरात्रे जयाख्यसंहितायां परिकरसाधनं नाम त्रिंशः पटलः ।
अथ उपाङ्गसाधनं नाम एकत्रिंशः पटलः । [ सत्यमन्त्रसाधनप्रकारः]
श्रीभगवान्कदम्बगोलकाकारं नानावर्णविभूषितम् । सपञ मण्डलं कृत्वा पुरा तदनु नारद ॥१॥ सत्येन सकलीकृत्य स्वमात्मानं यजेद्धादि ।। ततोऽवतार्य हृदयान्मण्डले पूर्वकल्पिते ॥ २ ॥ चित्रैः पवित्रैः सुस्वादरिष्ट्वा मूलफलादिकैः । हुत्वा तिलाधैर्विप्रेन्द्र ततो यायाच्छुभं वनम् ॥ ३॥ तत्र लक्षचतुष्कं तु स्वस्थानावस्थितं मुने । जप्तव्यं ध्यायमानेन द्विलक्षमथ होमयेत ॥४॥
For Private and Personal Use Only